Enter your Email Address to subscribe to our newsletters

सूरतम्, 06 मईमासः (हि.स.)। सम्पूर्णे देशे गोमातरं “राष्ट्रमाता” इति पदवीं दापयितुं प्रचलिताभियानस्य अन्तर्गतं सप्त-मई-दिनाङ्के सूरत-नगरे विशाला “गौ-सम्मान-यात्रा” आयोजयिष्यते। अस्मिन् अभियाने सहस्रशः गोसेवकाः, सनातनधर्मप्रेमिणः, सामाजिकसङ्गठनानि, व्यापारिवर्गश्च सम्मिलिताः भूत्वा यात्रां निर्गमयिष्यन्ति तथा च समाहर्तुं प्रति राष्ट्रपति-प्रधानमन्त्रि-मुख्यमन्त्रिणां नाम्ना ज्ञापनं समर्पयिष्यन्ति।
अभियानेन सम्बद्धानाम् आयोजकानाम् अनुसारं, सम्प्रति देशे नगरेषु, ग्रामेषु, तहसील-स्तरेषु च यात्राः, हस्ताक्षर-अभियानानि, 'मिस्ड-कॉल' अभियानानि च चालयित्वा भारतसर्वकारात् गोमातां राष्ट्रमाता इति घोषितुं अभ्यर्थना कृता आसीत्। अस्यामेव शृङ्खलायां अधुना सूरते अपि व्यापक-जनजागरण-कार्यक्रमः रचितः।
कार्यक्रमानुसारं अमरोली, वराछा, कतारगाम, रामबाड़ी, पर्वत-पाटिया, नन्देश्वर-गौशाला, माधव-गौशाला, सर्वधर्म-संस्था इत्यादयः अनेके गोसेवी-संस्थानां सदस्याः प्रातः ९ वादने 'मिलेनियम-मार्केट' इत्यस्य पुरतः एकत्रिताः भविष्यन्ति। ततः प्रातः ९:३० वादने यात्रा 'वनिता-विश्राम' स्थलं प्राप्स्यति। भटार, वेसू, पाण्डेसरा, डिण्डोली, सिटी-लाइट, अडाजण इत्येवं विभिन्नक्षेत्रेभ्यः आगमिष्यमाणाः यात्राः अपि वनिता-विश्राम-स्थले मिलिष्यन्ति।
प्रातः १० तः १०:१५ वादनपर्यन्तं सर्वाः यात्राः एकीभूय सहस्रशः जनैः सह समाहर्तुः कार्यालयं प्रति प्रस्थास्यन्ति। तदनन्तरं समाहर्त्रे ज्ञापनं प्रदास्यते।
आध्यात्मिक-गुरुः प्रखरा गोसेविका च साध्वी कपिला दीदी अभियानस्य रूपरेखां श्रावयन्ती अधिकतः अधिकजनान् संयोजयितुम् आह्वानं कृतवती। सा उक्तवती यत् गोमातुः सम्माने व्यापकं हस्ताक्षर-अभियानमपि प्रचलति, यस्य अन्तर्गतं सूरत-नगरात् अधुना यावत् प्रायः पञ्चलक्षं (5,00,000) हस्ताक्षराणि सङ्गृहीतानि। एतानि हस्ताक्षराणि रक्तवस्त्रे बद्ध्वा वृषभशकटैः (बैलगाड़ी) यात्रायां सम्मिलीकरिष्यन्ते।
आयोजकानाम् अनुसारं यात्रायां ढोल-नगाडाः, झाङ्क्यः, वृषभशकटानि तथा च महिलानां, यूनां, बालकानां च महती सहभागिता द्रक्ष्यते। व्यापारिक-सङ्गठनानि अपि अभियानं सफलं कर्तुं सङ्कल्पं प्रकटितवन्तः। अस्मिन् अभियाने संलग्नः गोभक्तः ललित शर्मा सूचितवान् यत् अस्याः यात्रायाः पूर्वं अद्य गोभक्तैः स्वकीय-रक्तेन प्रधानमन्त्रिणे राष्ट्रपतये च प्रार्थनापत्रं लिखितम्। गोभक्तानां रक्तेन लिखितेषु एतेषु प्रार्थनापत्रेषु भारतभूमिं गोवधस्य कलङ्कात् मुक्तां कर्तुं तथा च केन्द्रसर्वकारेण 'गौ-संवर्धन-मन्त्रालयस्य' आरम्भं कर्तुं प्रार्थना कृता।
---------------
हिन्दुस्थान समाचार