आदेशं स्वदेशिरसोवत्याः अनिलकोषस्य वितरणं सामान्यम् : सर्वकारः
नवदिल्ली, 06 मईमासः (हि.स)। केन्द्रसर्वकारेण बुधवासरे उक्तं यत् देशव्यापि गृहोपयोगिरसोईगैस इत्यस्य वितरणं सामान्यरूपेण प्रचलति तथा कस्यापि एलपीजी-वितरकस्य समीपे भण्डारशून्यतायाः काचिदपि सूचना न प्राप्ता। सर्वकारेण उक्तं यत् प्रायेण ९५ प्रतिशतं गै
अंतर-मंत्रालयी प्रेस वार्ता को संबोधित करते संयुक्त सचिव सुजाता शर्मा


नवदिल्ली, 06 मईमासः (हि.स)।

केन्द्रसर्वकारेण बुधवासरे उक्तं यत् देशव्यापि गृहोपयोगिरसोईगैस इत्यस्य वितरणं सामान्यरूपेण प्रचलति तथा कस्यापि एलपीजी-वितरकस्य समीपे भण्डारशून्यतायाः काचिदपि सूचना न प्राप्ता। सर्वकारेण उक्तं यत् प्रायेण ९५ प्रतिशतं गैससिलिण्डरवितरणं “डिलीवरी ऑथेन्टिकेशन कोड्” इत्यस्य माध्यमेन सम्पन्नं भवति।

पेट्रोलियमप्राकृतिकगैसमन्त्रालयस्य संयुक्तसचिवा सुजाताशर्मा नूतनदिल्ली नगरे आयोजितां अन्तरमन्त्रालयीयपत्रकारवार्तां सम्बोधयन्ती उक्तवती यत् गृहोपयोगिरसोईगैसस्य (एलपीजी) वितरणं सामान्यस्थितौ एव वर्तते तथा भण्डारसमाप्तेः कापि सूचना न प्राप्ता। तया उक्तं यत् प्रायेण ९५ प्रतिशतं गैससिलिण्डरवितरणं “डिलीवरी ऑथेन्टिकेशन कोड्” इत्यस्य माध्यमेन क्रियते। विगतद्विदिने ८८.८२ लक्षपञ्जीकरणानां तुलनायां प्रायेण ८७.२८ लक्षसिलिण्डराः वितरिताः सन्ति।

सुजाताशर्मा उक्तवती यत् पश्चिमएशियासंकटस्य मध्ये अपि सर्वकारः पाककार्याय गृहोपयोगिरसोईगैसस्य शतप्रतिशतं आपूर्तिं उपभोक्तृभ्यः सुनिश्चितं कर्तुं सर्वान् सम्भवान् प्रयत्नान् करोति। वाणिज्यसिलिण्डर-उपभोक्तृभ्यः अपि ७० प्रतिशतपर्यन्ता आपूर्तिः सुनिश्चितीक्रियते। संयुक्तसचिवया उक्तं यत् प्रायेण ६ लक्ष ३१ सहस्राणि नवीनानि पीएनजी-संयोजनानि गैसआपूर्त्या सह आरब्धानि, तथा २.६७ लक्षाधिकसंयोजनानां कृते आधारसंरचना अपि सज्जीकृता। अद्यावधि ६ लक्ष ९३ सहस्र उपभोक्तारः पीएनजी-संयोजनार्थं पञ्जीकृताः सन्ति। तया उक्तं यत् ४९ सहस्राधिकाः पीएनजी-उपभोक्तारः स्वेच्छया स्वीयानि एलपीजी-संयोजनानि समर्पितवन्तः।

सुजाताशर्मा उक्तवती यत् विगतद्विदिने प्रायेण १५,९०० टनपरिमितं वाणिज्य-एलपीजी तथा ८७६ टनपरिमितम् ऑटो-एलपीजी विक्रयं प्राप्तम्। तदतिरिक्तं प्रायेण १.२ लक्षानि पञ्चकिलोग्रामपरिमितानि सिलिण्डराणि अपि विक्रीतानि। अपरं ३ अप्रैलदिनाङ्कात् अद्यावधि १०,००० अधिकानि जागरूकताशिबिराणि आयोजितानि, येषां माध्यमेन १.८४ लक्षाधिकानि पञ्चकिलोग्रामपरिमितानि सिलिण्डराणि विक्रीतानि। तया एतदपि उक्तं यत् कार्यव्यवहारः तथा विक्रयकेन्द्राणि सामान्यरूपेण सञ्चलन्ति।

अपरतः पत्तनपोतपरिवहनजलमार्गमन्त्रालयस्य निदेशकः ओपेशकुमारशर्मा उक्तवान् यत् पत्तन-जहाजरानी-जलमार्गमन्त्रालयं विदेशमन्त्रालयेन, विदेशस्थितैः भारतीयमिशनैः तथा सामुद्रिकक्षेत्रस्य हितधारकैः सह निरन्तरं समन्वयं धारयति, येन नाविकानां कल्याणं सुनिश्चितं भवेत् तथा सामुद्रिकपरिचालनं निर्बाधरूपेण प्रवर्तेत। तेन उक्तं यत् अस्मिन् क्षेत्रे वर्तमानाः सर्वे भारतीयनाविकाः सुरक्षिताः सन्ति, तथा विगत ४८ घण्टेषु भारतीयध्वजयुक्तजहाजैः अथवा भारतीयनाविकान् वहद्भिः विदेशध्वजयुक्तविमानैः सम्बद्धा काचिदपि दुर्घटनासूचना न प्राप्ता।

ओपेशकुमारशर्मा उक्तवान् यत् डीजी-शिपिंग-नियन्त्रणकक्षे आरम्भकालात् अद्यावधि ८,५७० दूरभाषसम्पर्काः तथा १८,७३२ अधिकाः ईमेलसन्देशाः व्यवस्थापिताः। तेषु १५६ दूरभाषाः तथा ६६८ ईमेलसन्देशाः विगत ४८ घण्टेषु प्राप्ताः। तेन उक्तं यत् मन्त्राल्येन खाडीक्षेत्रस्य विभिन्नस्थानात् २,९९९ अधिकानां नाविकानां सुरक्षितप्रत्यागमनाय साहाय्यं कृतम्, येषु २३ नाविकानां प्रत्यागमनं विगत ४८ घण्टेषु सम्पन्नम्। सम्पूर्णभारतवर्षे पत्तनानां परिचालनं सामान्यस्थितौ वर्तते तथा कुत्रापि संमर्दभारस्य सूचना न प्राप्ता।

---------------

हिन्दुस्थान समाचार