Enter your Email Address to subscribe to our newsletters

लखनऊ, 06 मईमासः (हि.स.)।
उत्तरप्रदेशे आबकारीविभागेन राजस्वसंग्रहे पुनरेकवारं नूतनः अभिलेखः स्थापितः। आबकारीविभागस्य राज्यमन्त्री (स्वतन्त्रप्रभारः) नितिनअग्रवालः बुधवासरे अवदत् यत् वित्तीयवर्षे २०२६-२७ तमे वर्षे अप्रैलमासे ५,२४८.०६ कोटिरूप्यकाणां राजस्वं प्राप्तम्।
एतत् अप्रैल २०२५ तमे वर्षे प्राप्तानां ४,३१९.४६ कोटिरूप्यकाणां तुलनायां २१.५० प्रतिशतं तन्नाम ९२८.६० कोटिरूप्यकैः अधिकम् अस्ति। एतत् अप्रैल २०२६ तमे वर्षे निर्धारितस्य ५,२००.०० कोटिरूप्यकपरिमितस्य लक्ष्यस्य अपेक्षया ०.९२ प्रतिशतं अधिकम् अस्ति।
तेन उक्तं यत् अप्रैल २०२६ मासे अपि प्रवर्तनकार्यवाही निरन्तरं प्रचलन्ती आसीत्, यस्यां ९,५३५ अभियोगाः पञ्जीकृताः। तेषु २.५५ लक्षलीटरपरिमिता अवैधमदिरा जप्तीकृता। अस्मिन् काले १,५१६ व्यक्तयः गृहीताः तथा २१४ व्यक्तयः कारागारं प्रेषिताः। अष्ट वाहनानि अपि जप्तानि।
उल्लेखनीयम् अस्ति यत् वित्तीयवर्षे २०२५-२६ तमे वर्षे मार्च २०२६ पर्यन्तं कुलं ५७,७२२.२६ कोटिरूप्यकाणां राजस्वं प्राप्तम्, यत् गतवित्तीयवर्षस्य २०२४-२५ तमे वर्षे समानकाले प्राप्तानां ५२,५७३.०७ कोटिरूप्यकाणां तुलनायां ९.७९ प्रतिशतं अर्थात् ५,१४९.१९ कोटिरूप्यकैः अधिकम् अस्ति।
वित्तीयवर्षे २०२५-२६ तमे वर्षे मार्च २०२६ पर्यन्तं प्रदेशे अवैधमद्यविरुद्धं कुलं १,१८,९७८ अभियोगाः पञ्जीकृताः। ३०.९४ लक्षलीटरपरिमिता अवैधमदिरा मादकद्रव्याणि च जप्तानि। अस्मिन् अवधौ २१,४४६ व्यक्तीनां ग्रहणं कृतम् तथा ३,९६७ व्यक्तयः कारागारं प्रेषिताः। अवैधतस्कर्यां संलग्नानि १५२ वाहनानि निगृहीतानि।
------------
हिन्दुस्थान समाचार