चांदपोल-जयपुर-नगरस्य रिजर्व-आरक्षक-रेखायां निःशुल्क-चिकित्सा-शिविरस्य आयोजनं कृतम्
जयपुर-नगरम्, ०६ मईमासः (हि.स.)। आरक्षक-आयुक्तालयस्य रिजर्व-पुलिस-लाईन-चांदपोल-जयपुर-स्थिते डिस्पेंसरी-स्थले अमर-मेडिकल-रिसर्च-सेंटर-मानसरोवरस्य सौजन्येन निःशुल्क-चिकित्सा-शिविरं आयोजितम्। पुलिस-उपायुक्तः (मुख्यालयः) राजेश-कोवटः उक्तवान् यत् शिविरे
रिजर्व पुलिस लाईन चांदपोल जयपुर में निःशुल्क चिकित्सा शिविर का आयोजन


जयपुर-नगरम्, ०६ मईमासः (हि.स.)। आरक्षक-आयुक्तालयस्य रिजर्व-पुलिस-लाईन-चांदपोल-जयपुर-स्थिते डिस्पेंसरी-स्थले अमर-मेडिकल-रिसर्च-सेंटर-मानसरोवरस्य सौजन्येन निःशुल्क-चिकित्सा-शिविरं आयोजितम्।

पुलिस-उपायुक्तः (मुख्यालयः) राजेश-कोवटः उक्तवान् यत् शिविरे सेवानिवृत्त-आरक्षक-कर्मचारिणः तेषां परिवारजनाश्च फिजिशियन, मानसिक-स्वास्थ्य-विशेषज्ञ:, अस्थि-रोग-विशेषज्ञ: तथा नेत्र-रोग-विशेषज्ञैः परामर्शं प्राप्तवन्तः।

तत्र रक्तचापः, रक्त-शर्करा (ब्लड-शुगर), ईसीजी इत्यादीनां सामान्य-परीक्षणानि अपि कृतानि। अस्मिन् शिविरे आहत्य १०९ कर्मचारीणः स्वास्थ्य-परीक्षणं कृत्वा चिकित्सकीय-परामर्शं प्राप्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता