मुख्यमंत्रिणा डॉ. यादवेन अमिलत् ग्रीनको ग्रुप इत्यस्य कार्यकारी निदेशकः बंडारूः, नवीकरणीय ऊर्जायां संजाता चर्चा
भोपालम्, 06 मईमासः (हि.स.) । मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः बुधवासरे भोपालस्थिते मुख्यमन्त्रिनिवासस्य समत्वभवने ग्रीनको-ग्रुपस्य कार्यकारीनिर्देशकं नरसिम्हारावबण्डारू महोदयम् तथा उपाध्यक्षं नवीनकुमारं समभाषत। अस्मिन् अवसरे प्रदेशे नवीकर
मुख्यमंत्री डॉ. मोहन यादव से मिले ग्रीनको ग्रुप के कार्यकारी निदेशक नरसिम्हा राव बंडारू


मुख्यमंत्री डॉ. मोहन यादव से मिले ग्रीनको ग्रुप के कार्यकारी निदेशक नरसिम्हा राव बंडारू


भोपालम्, 06 मईमासः (हि.स.) ।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः बुधवासरे भोपालस्थिते मुख्यमन्त्रिनिवासस्य समत्वभवने ग्रीनको-ग्रुपस्य कार्यकारीनिर्देशकं नरसिम्हारावबण्डारू महोदयम् तथा उपाध्यक्षं नवीनकुमारं समभाषत। अस्मिन् अवसरे प्रदेशे नवीकरणीयऊर्जासम्बद्धक्रियाकलापानां विषये विस्तृतरूपेण चर्चा अभवत्।

उल्लेखनीयम् अस्ति यत् ग्रीनको-ग्रुपः भारतस्य अग्रणीषु नवीकरणीयऊर्जाकम्पनीषु अन्यतमः अस्ति। अयं समूहः शिवपुरीजिले सौरऊर्जासंयन्त्रं तथा मन्दसौर-रतलामजिलयोः पवनऊर्जासंयन्त्रं सञ्चालयति। नीमचजिले गान्धीसागरस्य समीपे १९२० मेगावाटक्षमतायुक्तस्य भारतस्य विशालतमस्य पम्प-हाइड्रो-स्टोरेज-प्लाण्ट इत्यस्य निर्माणम् अपि ११ सहस्रकोटिरूप्यकाणां निवेशेन क्रियते। अस्याः परियोजनायाः माध्यमेन प्रायेण ४ सहस्रजनानां कृते रोजगारावसराः उपलब्धाः भविष्यन्ति। ग्रीनको-ग्रुपः प्रदेशे नवीकरणीय-ऊर्जाक्रियाकलापानां विस्तारं कर्तुम् इच्छुकः अस्ति।

---------------

हिन्दुस्थान समाचार