स्वस्थ भारत पटलं विमोचितम्, एकपटले निवर्तिष्यन्ते सर्वाणि कार्याणि
नवदिल्ली, 06 मईमासः (हि.स.)। देशस्य स्वास्थ्यक्षेत्रं डिजिटलरूपेण सुदृढीकर्तुं स्वास्थ्यमन्त्रालयेन “स्वस्थभारतपटलं” प्रारब्धम्। एषा पहल १०मई नेशनलसंगोष्ठी ऑन् इन्नोवेशन एण्ड् इन्क्लूसिविटी इत्यस्य अवसरस्य काले कृता। एतत् पटलम् आयुष्मानभारतडिजिटल
स्वास्थ्य मंत्रालय का लोगो


नवदिल्ली, 06 मईमासः (हि.स.)।

देशस्य स्वास्थ्यक्षेत्रं डिजिटलरूपेण सुदृढीकर्तुं स्वास्थ्यमन्त्रालयेन “स्वस्थभारतपटलं” प्रारब्धम्। एषा पहल १०मई नेशनलसंगोष्ठी ऑन् इन्नोवेशन एण्ड् इन्क्लूसिविटी इत्यस्य अवसरस्य काले कृता। एतत् पटलम् आयुष्मानभारतडिजिटलमिशनस्य अन्तर्गतं विकसितम् अस्ति तथा आभया सह सम्बद्धं भूत्वा रोगिणां स्वास्थ्यदत्तांशानां सुरक्षितविनिमयं सुनिश्चितं करिष्यति।

स्वास्थ्यमन्त्रालयस्य अनुसारम् एतत् पटलं विभिन्नस्वास्थ्यकार्यक्रमाणां विकीर्णप्रणालीः एकत्र संयोज्य एकस्मिन् मञ्चे आनयिष्यति। अद्यावधि अनेकाः अनुप्रयोगाः पोर्टलानि च पृथक्पृथक् कार्यं कुर्वन्ति स्म, येन दत्तांशपुनरावृत्तिः समयस्य अपव्ययश्च भवति स्म। मन्त्रालयेन उक्तं यत् स्वस्थभारतपोर्टलस्य माध्यमेन एकस्मिन् स्थाने सर्वदत्तांशप्रवेशः सम्भवः भविष्यति, अनेकप्रवेशनामानां आवश्यकता समाप्ता भविष्यति तथा प्रतिवेदनप्रक्रिया निरीक्षणप्रक्रिया च सुकरा भविष्यतः।

एतेन सह स्वास्थ्यकर्मचारिणां कृते अपि राहतिः भविष्यति। आशाकार्यकर्त्र्यः, एएनएमकर्मचारिणः, सीएचओकर्मचारिणः तथा चिकित्साधिकारीणः अधुना पृथक्पृथक् प्रणालीषु कार्यं कर्तुं न बाध्याः भविष्यन्ति। एकेन एव मञ्चेन सर्वाणि कार्याणि सम्पन्नानि भविष्यन्ति, येन तेषां समयः परिश्रमश्च उभौ रक्षितौ भविष्यतः।

मन्त्रालयस्य अनुसारम् एतेन आधारसंरचनाव्यये २०–३० प्रतिशतपर्यन्तं न्यूनता, दत्तांशप्रवेशे कर्मचारिपुनरावृत्तौ च २०–४० प्रतिशतपर्यन्तं न्यूनता तथा निर्णयग्रहणप्रक्रियायां तीव्रता आगमिष्यति।

मन्त्रालयेन उक्तं यत् एतत् पटलं भारतस्य डिजिटलस्वास्थ्यप्रणाल्याः एकीकरणस्य दिशि महत्त्वपूर्णं पदम् अस्ति, येन भविष्ये उत्तमस्वास्थ्यसेवाः दत्तांशाधारितनिर्णयाश्च सम्भविष्यन्ति।

---------------

हिन्दुस्थान समाचार