Enter your Email Address to subscribe to our newsletters

प्रयागराज-नगरम्, ०६ मईमासः (हि.स.)। उत्तरप्रदेश-राज्यपालः आनन्दीबेन-पटेल: अन्तर्जाल-माध्यमेन इलाहाबाद-संग्रहालये दिव्याङ्ग-जन-शिशूनां कृते विकसितायाः ‘अनुभव-वीथिकायाः’ उद्घाटनम् अकरोत्। तया बालकैः सह संवादः कृतः, एषा वीथिका उपयोगिनी अभिनवा च उपलब्धिः इति कथितम्।
तया निर्देशितम् यत् स्पर्शनीय-पुस्तिकाः तथा श्रव्य-साधनानि उपलभ्यन्ताम्, येन बालकाः स्पर्श-श्रवणाभ्यां ज्ञानं लभेरन्। उद्घाटन-अवसरे १०० दिव्याङ्ग-शिशूनां भ्रमणं आयोजितम्, तथा शैक्षिक-चलच्चित्र-प्रदर्शनं सांस्कृतिक-कार्यक्रमाश्च सम्पन्नाः।
एषा वीथिका ‘सक्षम’ संस्थया सह विकसिताऽस्ति, यत्र विविध-धरोहर-स्थलानां वन्य-जीवानां च प्रतिकृतयः, ब्रेल-लिप्या श्रव्य-यन्त्रैः च सह स्थापिता सन्ति। अनया प्रदर्शिन्या दिव्याङ्ग-जन-शिशूनां संवेदन-अवगमनं, आत्मविश्वासं सहभागितां च वर्धितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता