वियतनामदेशस्य राष्ट्रपतिः औपचारिकतया स्वागतं कृतवान्, प्रधानमन्त्रिणा मोदीना सह द्विपक्षीयवार्ता सम्पन्ना
नवदिल्लीनगरम्, ०६ मईमासः (हि.स.)। भारतदेशस्य स्वस्य प्रथमराजकीय-यात्रायाम् मङ्गलवासरे सायंकाले नवदिल्लीं प्राप्तः वियतनामदेशस्य राष्ट्रपतिः तो-लामस्य बुधवासरे राष्ट्रपतिभवने औपचारिकतया स्वागतम् अभवत्। राष्ट्रपतिः द्रौपदी मुर्मु तथा प्रधानमन्त्री नर
राष्ट्रपति भवन में औपचारिक स्वागत के दौरान मेहमान नेता और राष्ट्रपति एवं प्रधानमंत्री


नवदिल्लीनगरम्, ०६ मईमासः (हि.स.)। भारतदेशस्य स्वस्य प्रथमराजकीय-यात्रायाम् मङ्गलवासरे सायंकाले नवदिल्लीं प्राप्तः वियतनामदेशस्य राष्ट्रपतिः तो-लामस्य बुधवासरे राष्ट्रपतिभवने औपचारिकतया स्वागतम् अभवत्। राष्ट्रपतिः द्रौपदी मुर्मु तथा प्रधानमन्त्री नरेन्द्रमोदी तं स्वागतितवन्तौ। राष्ट्रपतिना लामेन सह प्रधानमन्त्रीमोदी द्विपक्षीयवार्तां कर्तुं दिल्लीनगरस्य हैदराबाद-गृहे मिलिष्यति।

स्वागतस्य अनन्तरं राष्ट्रपतिः तो-लामः राजघाटं गत्वा महात्मा-गान्धिने श्रद्धाञ्जलिं अर्पितवान्। ततः अनन्तरं प्रधानमन्त्री मोदी हैदराबाद-गृहे राष्ट्रपतिना तो-लामेन सह मिलितवान्। प्रधानमन्त्री मोदी राष्ट्रपतिना लामेन सह द्विपक्षीयसम्बन्धानां विविधपक्षेषु तथा पारस्परिकहितस्य क्षेत्रीयवैश्विकविषयेषु व्यापकीं चर्चां करिष्यति।

वियतनामदेशस्य राष्ट्रपतिः तो-लामः भारतस्य स्वस्य प्रथमराजकीययात्रायाम् मङ्गलवासरे सायंकाले नवदिल्लीं प्राप्तः। भारत-वियतनामदेशयोः अस्मिन् वर्षे व्यापक-रणनीतिक-सहभागितायाः दशवर्षपूर्तेः उत्सवः आयोज्यते। वियतनामदेशस्य राष्ट्रपतेः भारतयात्रा बिहारराज्यस्य बोधगया-नगरात् आरब्धा। राष्ट्रपतिः लाम बोधगयायाः महाबोधि-मन्दिरे प्रार्थनां कृतवान्।

प्रधानमन्त्रिणः मोदीनः आमन्त्रणेन वियतनाम-कम्युनिस्ट-पक्षस्य केन्द्रीयसमितेः महासचिवः तथा वियतनामदेशस्य राष्ट्रपतिः लाम ५ तः ७ मई पर्यन्तं भारतदेशस्य राजकीययात्रायां भविष्यति। तेन सह वियतनाम-सर्वकारस्य मन्त्रिणः वरिष्ठ-अधिकारीणां च उच्चस्तरीय-प्रतिनिधिमण्डलम् अपि आगतम् अस्ति। राष्ट्रपतिः लामः स्वस्य भारतयात्राकाले मुम्बई-नगरस्य अपि भ्रमणं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता