Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे उक्तवान् यत् भारतवियतनामदेशयोः सम्बन्धाः अधुना उन्नतसमग्ररणनीतिकसहकारित्वस्य नूतनचरणे प्रविष्टाः सन्ति, उभौ देशौ च सह मिलित्वा विकाससमृद्ध्योः दिशि अग्रे गमिष्यतः। तेन दृढतया उक्तम्— “वयं सह चलिष्यामः, सह वर्धिष्यामः, सह च विजेष्यामः।”
प्रधानमन्त्रिणा नरेन्द्रमोदिना वियतनामदेशस्य राष्ट्रपतिना तो लाम महोदयेन सह बुधवासरे सम्पन्नायाः उच्चस्तरीयवार्तायाः अनन्तरं भारतवियतनामदेशाभ्यां स्वसम्बन्धान् उन्नतसमग्ररणनीतिकसहकारित्वस्य स्तरं प्रति उन्नीयमानान् घोषितवन्तौ। उभाभ्यां देशाभ्यां व्यापाररक्षासम्पर्करणनीतिकसहकार्याणां नवगत्यर्थं दृढसंकल्पः अपि व्यक्तः।
संयुक्तपत्रकारसम्मेलने प्रधानमन्त्री मोदी उक्तवान् यत् राष्ट्रपतेः तो लाम महोदयस्य भारतभ्रमणं द्वयोर्देशयोः दृढीभवत्सम्बन्धानां परस्परप्राथमिकतायाश्च द्योतकम् अस्ति। तेन उक्तं यत् एषा साझेदारिता अधुना अधिकोच्चलक्ष्याणां प्रति अग्रे गमिष्यति।
प्रधानमन्त्री उक्तवान् यत् भारतवियतनामदेशयोः व्यापारः गतदशके द्विगुणितः भूत्वा षोडशअर्बुड्डॉलरपरिमाणं प्राप्तवान्। अधुना उभाभ्यां देशाभ्यां २०३० तमवर्षपर्यन्तं तस्य पञ्चविंशत्यर्बुड्डॉलरपर्यन्तं विस्तारस्य लक्ष्यं निर्धारितम्। औषधकृषिमत्स्यपशुपदार्थनिर्यातवर्धनार्थं बहुषु सम्झौतासु सहमति प्राप्ता। अचिरेण एव वियतनामदेशः भारतस्य द्राक्षादाडिमफलयोः स्वादं आस्वादयिष्यति, वयं च वियतनामदेशस्य डूरियन पोमेलोफलयोः स्वादं ज्ञास्यामः।
उभाभ्यां देशाभ्यां वित्तीयसहकार्यवर्धनस्य अन्तर्गतं भारतस्य यूपीआई तथा वियतनामदेशस्य शीघ्रभुगतानप्रणाल्योः संयोजनाय सहमति व्यक्ता। तथैव वायुसम्पर्कव्यवस्था, राज्यस्तरीयसहकार्यं नगरस्तरीयसहकार्यं च अपि वर्धयिष्यते।
प्रधानमन्त्री उक्तवान् यत् वियतनामदेशः भारतस्य “एक्ट ईस्ट पॉलिसी” तथा “विजन महासागर” इत्येतयोः प्रमुखस्तम्भः अस्ति। उभाभ्यां देशाभ्यां हिन्दप्रशान्तक्षेत्रे शान्तिस्थैर्यनियमाधारितव्यवस्थावर्धनार्थं रक्षासुरक्षासहकार्यस्य सुदृढीकरणे बलं दत्तम्। वियतनामदेशस्य सहयोगेन भारतम् आसियानसंघेन सह स्वसम्बन्धान् अपि अधिकं व्यापकान् करिष्यति।
प्रधानमन्त्री मोदी उक्तवान् यत् भारतवियतनामदेशयोः मध्ये गहनाः सभ्यतासांस्कृतिकसम्बन्धाः सन्ति। चम्पासभ्यतायाः देवालयानां संरक्षणं प्राचीनपाण्डुलिपीनां डिजिटलीकरणं च इव उपक्रमाः एतं निक्षेपम् अग्रे नेष्यन्ति।
प्रधानमन्त्री पहलगामे जातस्य आतङ्कवादीआक्रमणस्य निन्दां कृत्वा आतङ्कवादविरुद्धे भारतस्य समर्थनार्थं वियतनामदेशस्य प्रति कृतज्ञतां व्यक्तवान्। प्रधानमन्त्री उक्तवान् यत् वैश्विकार्थिकचुनौतिनां मध्ये भारतवियतनामदेशौ शीघ्रं वर्धमाने अर्थव्यवस्थे स्तः, नूतनरणनीतिकसाझेदारितायाः माध्यमेन च उभौ देशौ परस्परविकासे सहायकरूपेण भविष्यतः।
अन्ते प्रधानमन्त्री मोदी बुद्धस्य शिक्षाणां उल्लेखं कृत्वा उक्तवान् यत् परस्परविकासे सहयोगः एव उभयोर्देशयोः संयुक्तप्रगतेः मार्गः अस्ति।
---------------
हिन्दुस्थान समाचार