Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ मईमासः (हि.स.)। भारत-कोरिया-देशयोः मध्ये २५ मई-दिनाङ्के वृहद्-आर्थिक-सहभागिता-सन्धि (सीईपीए) समीक्षायाः विषये वार्ता भविष्यति। एषा सन्धि: जनवरी-२०१० वर्षे प्रवृत्ता अभवत्।
अधिकारिक-सूत्राणां अनुसारं उभयदेशयोः अधिकारीणः २५ मई-दिनाङ्के मिलित्वा मुक्त-व्यापार-सन्धे: (एफटीए) समीक्षां तथा तस्य उन्नयन-विषये चर्चां करिष्यन्ति।
एषा वार्ता महत्त्वपूर्णा इति मन्यते, यतः भारतदेश: कोरियादेशं नूतन-द्विपक्षीय-व्यापार-सन्ध्या आधुनिकीकरणस्य तथा व्यापार-घाट-सम्बद्ध-चिन्तानां समाधानस्य प्रस्तावं दत्तवान्।
उल्लेखनीयम् यत् पूर्वं वाणिज्य-उद्योग-मन्त्री पीयूष-गोयलः कोरियाई-समकक्षं प्रति नूतन-एफटीए-विषये विचारं कर्तुं उक्तवान् आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता