Enter your Email Address to subscribe to our newsletters

साम्बा-जनपदः, ०६ मईमासः (हि.स.)। उपराज्यपालः मनोज-सिन्हा अद्य घगवाल-स्थिते प्राचीन-श्री-नरसिंह-देव-मन्दिरे श्री-नरसिंह-देव-संस्कृत-गुरुकुलस्य उद्घाटनं कृतवान्। तेन नक्षत्र-पार्कः तथा योग-ध्यान-केन्द्रं जनतायै समर्पितम्, श्री-नरसिंह-देव-सार्वजनिक-पुस्तकालयस्य मुक्त-रङ्गमञ्चस्य च आधारशिला अपि स्थापिता।
विद्वत्-छात्र-प्रमुख-नागरिकाणां सभां सम्बोध्य उपराज्यपालः उक्तवान् यत् अस्य गुरुकुलस्य स्थापना भारतस्य सभ्यतामूलैः सह सार्थक-पुनस्सबन्धस्य प्रतीकः अस्ति। एतत् सांस्कृतिक-पुनर्जागरणस्य तथा प्राचीन-भारतीय-ज्ञान-परम्परायाः सुदृढीकरणस्य महत्त्वपूर्णं पदम् इति सः अवदत्।
सः अपि उक्तवान् यत् घगवाल-भूमिः ऐतिहासिकतया ज्ञानस्य जीवित-केन्द्रम् आसीत्, यत्र वैदिक-शिक्षाः पुष्पिताः आसन् तथा गुरु-शिष्य-परम्परा समृद्धा जाता, या विद्यार्थिनः जीवन-कौशलं, समालोचनात्मक-चिन्तनं तथा सत्यस्य अन्वेषणस्य साहसं दत्तवती।
उपराज्यपालः भारतस्य विज्ञान-नवाचार-प्रौद्योगिकी-क्षेत्रेषु तीव्र-प्रगतेः उल्लेखं कृत्वा उक्तवान् यत् राष्ट्रस्य वास्तविक-शक्तिः तस्य सांस्कृतिक-चेतनायां निहिता अस्ति, यत्र संस्कृतभाषा नैतिकता-कर्तव्ययोः आधारे संतुलित-दृष्टिकोणं प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति।
सः उक्तवान् यत् संस्कृतभाषा शताब्द्यः पर्यन्तं मानवतायाः मूल्यानां ज्ञान-प्रणालीनां च प्रमुखः स्रोतः अभवत्। तेन कौटिल्यः, चरकः, सुश्रुतः, भास्कराचार्यः, ब्रह्मगुप्तः, आर्यभटः, वराहमिहिरः इत्यादीनां प्राचीन-विदूषां गणित-चिकित्सा-दर्शन-क्षेत्रेषु वैश्विक-परम्पराणां निर्माणे महत्त्वपूर्णं योगदानम् अपि स्मारितम्।
अन्ते उपराज्यपालः उक्तवान् यत् अस्य विशाल-ज्ञान-भाण्डारस्य समकालीन-जगति प्रासङ्गिकता सुनिश्चितुं तस्य सरल-आधुनिक-भाषायां सुलभता आवश्यकाऽस्ति। गुरुकुल-प्रबन्धनं प्रति सः आग्रहं कृतवान् यत् परम्परायाः गाम्भीर्यं आधुनिकतायाः व्यापकतया सह समन्वय्य उच्च-शिक्षा-मानकाः पालननीयाः, तथा संस्थानं केवलं उपाधि-प्रदानं न कृत्वा संवेदनशील-नैतिक-साहसी-व्यक्तित्वानां निर्माणे अपि प्रवर्तेत्।
हिन्दुस्थान समाचार / Divya Ranjan