Enter your Email Address to subscribe to our newsletters

नवदिल्लीनगरम्, ०६ मईमासः (हि.स.)। विज्ञान-प्रौद्योगिकी-क्षेत्रे सहयोगं सुदृढीकर्तुं बुधवासरे भारत-जापानयोः मध्ये महत्त्वपूर्णा सन्धि: सम्पन्ना। अस्य कृते जापानदेशस्य विज्ञान-प्रौद्योगिकी-नीति-मन्त्री ओनोडा-किमी उच्चस्तरीय-प्रतिनिधिमण्डलेन सह केन्द्रीय-मन्त्रीणं डॉ.जितेन्द्र-सिंहम् अपश्यत्। अस्मिन् मिलने उभयोः देशयोः मध्ये स्वास्थ्य-तथा-चिकित्सोपकरण-क्षेत्रयोः सहयोगाय करारः कृतः। इयं सन्धि: जापान-एजेन्सी-फॉर-मेडिकल-रिसर्च-एण्ड-डेवलपमेण्ट्, भारतीय-आयुर्विज्ञान-अनुसन्धान-परिषद् तथा विज्ञान-प्रौद्योगिकी-विभागयोः मध्ये सम्पन्ना।
अतिरिक्ततया क्वाण्टम्-विज्ञान-प्रौद्योगिकी-क्षेत्रे सहयोगं वर्धयितुं जापानस्य कैबिनेट्-कार्यालयेन तथा विज्ञान-प्रौद्योगिकी-विभागेन सह ‘लेटर-ऑफ-इण्टेण्ट्’ इत्यस्मिन् अपि हस्ताक्षरं कृतम्। अस्मिन् अवसरे डॉ.जितेन्द्र-सिंहः अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदिनः २०२५ वर्षे जापान-भ्रमणानन्तरं भारत-जापान-विज्ञान-प्रौद्योगिकी-सहभागिता नूतनं चरणं प्रविष्टवती। तेन उक्तं यत् जापानस्य समीपे उन्नता प्रौद्योगिकी अस्ति, भारतस्य समीपे तु युवा-कुशल-मानव-संसाधनस्य विशालः भण्डारः अस्ति; उभौ मिलित्वा नूतन-प्रौद्योगिकीषु शीघ्रं नवोन्मेषं कर्तुं शक्नुतः।
जापानस्य विज्ञान-प्रौद्योगिकी-नीति-मन्त्री ओनोडा-किमी अपि भारतस्य तीव्र-आर्थिक-वृद्धिं कृत्रिम-बुद्धिमत्तायाः (आर्टिफिशियल-इण्टेलिजेन्स्) व्यापक-उपयोगं च प्रशंसितवती। सा भारतीय-युवानां नवोन्मेष-क्षमतां तथा असफलताभ्यः शिक्षां ग्रहणस्य सामर्थ्यं विशेषतः उल्लिखितवती।
अस्मिन् अवसरे क्वाण्टम्-तथा स्वास्थ्य-क्षेत्रयोः केन्द्रिते सभायां नेशनल-क्वाण्टम्-मिशन, क्वाण्टम्-कम्प्यूटिङ्ग, सुरक्षित-सञ्चारः तथा स्वास्थ्य-अनुसन्धानम् इत्यादिषु क्षेत्रेषु सहयोग-वृद्धये चर्चा कृता। तथैव अनुसन्धान-उद्योग-स्टार्टअप्-क्षेत्रेषु सहभागिता सुदृढीकरणाय अपि बलं दत्तम्। उभौ देशौ अनुसन्धान-सहयोगं, संयुक्त-परियोजनाः, वैज्ञानिकानां आदान-प्रदानं च वर्धयितुं सम्मतिं दत्तवन्तौ। अस्य मुख्य-उद्देश्यं नूतन-प्रौद्योगिकीः शीघ्रं विकसित्य ताः सामान्य-जनान् प्रति प्रापयितुम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता