मध्यप्रदेशस्य मुख्यमन्त्री अद्य बुरहानपुर-जनपदे प्रवासे, विविधेषु कार्यक्रमेषु सहभागी भविष्यति
इन्दौरनगरम्, ०६ मईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य बुधवासरे बुरहानपुर-जनपदे प्रवासे भविष्यति। अस्मिन् समये सः विविधेषु कार्यक्रमेषु सहभागं करिष्यति। मुख्यमन्त्रिणः बुरहानपुर-आगमनस्य निमित्तं जनपद-प्रशासनेन व्यापकाः सज्जता
सीएम मोहन यादव


इन्दौरनगरम्, ०६ मईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य बुधवासरे बुरहानपुर-जनपदे प्रवासे भविष्यति। अस्मिन् समये सः विविधेषु कार्यक्रमेषु सहभागं करिष्यति। मुख्यमन्त्रिणः बुरहानपुर-आगमनस्य निमित्तं जनपद-प्रशासनेन व्यापकाः सज्जताः कृताः सन्ति।

निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री डॉ.यादवः प्रातः १०:१५ वादने बुरहानपुर-रेणुका-मण्डी-हेलिपेड-इत्यत्र प्राप्स्यति। सः एम्-आई-सी-सभागृहे निमाड़-औद्योगिक-सभा-सम्बद्धां समीक्षां करिष्यति, तथा च जनपदस्य विभिन्नेषु क्षेत्रेषु कार्यरतैः उद्योगपतिभिः सह संवादं करिष्यति।

अनन्तरं मुख्यमन्त्री डॉ.यादवः बुरहानपुर-लोकसभा-सदस्यस्य गृहग्रामं बोहरडा-ग्रामं गमिष्यति। सः प्रातः ११:१५ वादने तत्र स्थानीय-कार्यक्रमे सहभागी भविष्यति। ततः परं सः अपराह्णे १:०० वादने मुख्यमन्त्री-निवासं प्रतिनिवर्तिष्यति, पुनः च अपराह्णे ३:०० वादने आभार-कार्यक्रमे सहभागं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता