Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ०६ मईमासः (हि.स.)। उत्तरप्रदेश-राज्यस्य मुख्य-सचिवः एस.पी.गोयलः नोएडा-अन्ताराष्ट्रिय-विमानपत्तन-जेवरस्य लैंड-स्केपिङ्ग-विषये अधिकारिभिः सह समीक्षा-सभां कृतवान्।
सभायां प्रस्तुतीकरणे विमानपत्तन-क्षेत्रे लैंड-स्केपिङ्ग-योजनायाः प्रस्तुति: दत्ता, यस्यां सम्पूर्णे क्षेत्रे हरित-आवरणस्य विकासः तथा द्वितीय-रनवे-क्षेत्रस्य अपि समावेशः प्रस्तावितः।
मुख्य-सचिवेन निर्देशितम् यत् सम्पूर्ण-विमानपत्तन-क्षेत्रं हरित-युक्तं कर्तव्यम् तथा टर्मिनल-समक्षं आधुनिक-रूपेण लैंड-स्केपिङ्ग क्रियताम्।
अस्मिन् सभायां नायल-संस्थायाः सीईओ राकेश-कुमार-सिंहः, नोडल-अधिकारी शैलेन्द्र-कुमार-भाटिया, जनपदाधिकारी मेधा-रूपम् (ऑनलाइन) तथा नागरिक-उड्डयन-निदेशकः भौतिकरूपेण उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता