Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 06 मईमासः (हि.स.)।
मोहनचरणमांझिः ओडिशायाः मुख्यमंत्री अहमदाबाद-नगरे आयोजिते ‘ओडिशा-निवेशक-सम्मेलन-रोड-शो’ इत्यस्मिन् कार्यक्रमे सहभागितां कृतवान्। अस्मिन् अवसरे वस्त्र-तन्तुवाय-उद्योग-सहित-विविध-क्षेत्रेषु केन्द्रिताः चर्चाः कृताः, उद्योगपतिभिः सह प्रत्यक्ष-संवादश्च सम्पन्नः। एतद्विषये मुख्यमंत्री-कार्यालयेन सूचना प्रदत्ता।
मुख्यमन्त्रिणा षड्विंशतिः ‘वन-टू-वन’-बैठकाः अध्यक्षतया संचालिताः, यासु उद्योगपतिभिः सह निवेश-अवसराणां नीतिगत-सहयोग-संबद्ध-विषयाणां विषये विस्तृत-चर्चा कृता। तेन उक्तं यत् ‘पूर्वोदय’-पहलस्य अन्तर्गतं ओडिशां देशस्य औद्योगिक-विकासस्य प्रमुख-केन्द्ररूपेण स्थापयितुं एतत् महत्त्वपूर्णं पदम् अस्ति।
मुख्यमन्त्रिणः अस्य भ्रमणस्य प्रथमदिने प्रमुख-उद्योगपतिनां व्यावसायिक-संगठनानां च महती सहभागिता दृष्टा, या राज्यस्य विकसितायां औद्योगिक-व्यवस्थायां वर्धमानं विश्वासं प्रदर्शयति। पञ्चशताधिकान् उद्योग-प्रतिनिधीन् सम्बोधयन् मुख्यमन्त्री उक्तवान् यत् पूर्व-भारतस्य विकासेन सह एव देशस्य आर्थिक-प्रगतिः अपि वेगेन भविष्यति। तेन पुनः बलं दत्तं यत् पश्चिम-पूर्व-भारतयोः संतुलित-विकासेन देशस्य वृद्धिः अधिका समावेशिनी भविष्यति, अस्मिन् परिवर्तन-प्रक्रियायां च ओडिशा केन्द्रीयां भूमिकां निर्वक्ष्यति।
---------------
हिन्दुस्थान समाचार