Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 06 मईमासः (हि.स.)।
मोहनचरणमांझिः ओडिशायाः मुख्यमंत्री राज्यस्य विकासं जनाकाङ्क्षाणां च अभिवृद्धिं प्रति निरन्तर-सहयोगाय, उदार-समर्थनाय, दूरदर्शि-नेतृत्वाय च प्रधानमन्त्रिणे नरेन्द्र-मोदिने गाढां कृतज्ञतां व्यक्तवान्। मुख्यमन्त्री रायगडा-नगरस्य नूतन-रेलवे-विभागरूपेण घोषणायै केन्द्रीय-रेलमन्त्रिणे अश्विनीवैष्णवाय अपि आभारं प्रकटितवान्। तेन एषः निर्णयः ऐतिहासिकः इति वर्णितः, तथा च उक्तं यत् अनेन दक्षिण-ओडिशा-प्रदेशस्य जनानां दीर्घकालात् प्रचलिता अपेक्षा पूर्णा जाता।
आधिकारिक-सूचनानुसारं रायगडा-रेलवे-विभागः जून-मासस्य प्रथम-दिनात् आरभ्य सञ्चालितः भविष्यति, यः अस्य क्षेत्रस्य कृते परिवर्तनकारी-युगस्य आरम्भं करिष्यति। अस्याः पहलायाः परिणामस्वरूपं क्षेत्रीय-संपर्के उल्लेखनीयः सुधारः भविष्यति, पर्यटनस्य अपाराः सम्भावनाः उद्घाटिताः भविष्यन्ति, राजस्व-वृद्धिः भविष्यति, समावेशी-सतत-विकासश्च वेगं प्राप्स्यति।
मुख्यमन्त्रिणो माझिनः एषः निर्णयः “डबल-इञ्जिन-सर्वकारस्य” सशक्तम् उदाहरणम् इति कथितः, तथा च उक्तं यत् एतत् ओडिशायाः विकास-दिशायां महत्त्वपूर्णः मील-पत्थरः अस्ति। तेन उक्तं यत् अनेन राज्यं भारतस्य प्रगतौ प्रमुख-भागीदाररूपेण स्थापितुं, ‘विकसित-भारत’-लक्ष्यस्य प्राप्तौ च सहायता भविष्यति।
---------------
हिन्दुस्थान समाचार