Enter your Email Address to subscribe to our newsletters

नवदिल्लीनगरम्, ०६ मईमासः (हि.स.)। केन्द्रीय-सर्वकारेण शशि-शेखर-वेम्पतिः केन्द्रीय-चलच्चित्र-प्रमाणन-संघस्य (सीबीएफसी) नूतनः अध्यक्षः नियुक्तः।
सूचना-प्रसारण-मन्त्रालयस्य अनुसारं शशि-शेखर-वेम्पतिः त्रिवर्ष-पर्यन्तं अस्मिन् पदे कार्यभारं वहिष्यति। एषा नियुक्तिः प्रसून-जोशी इत्यस्य पदत्यागानन्तरं कृता। प्रसून-जोशी इत्यस्य अलीकाले प्रसार-भारत्याः अध्यक्षत्वे नियुक्तिः अभवत्, येन सः सीबीएफसी-प्रमुखस्य पदं त्यक्तवान्।
शशि-शेखर-वेम्पतिः मीडिया-प्रसारण-जनसंचार-क्षेत्रेषु दीर्घानुभवं धारयति। पूर्वं सः प्रसार-भारत्याः मुख्य-कार्यकारी-अधिकारी (सीईओ) अपि आसीत्। केन्द्रीय-चलच्चित्र-प्रमाणन-संघ: सामान्यतः ‘सेंसर-बोर्ड’ इति नाम्ना अपि ज्ञायते, यः भारत-सर्वकारस्य सूचना-प्रसारण-मन्त्रालयस्य अधीनम् एकं वैधानिकं संस्थानम् अस्ति। १९५२ वर्षस्य चलचित्र-अधिनियमस्य अन्तर्गतं चलचित्राणां, विज्ञापनानां, दूरदर्शन-कार्यक्रमाणां च सार्वजनिक-प्रदर्शनस्य प्रमाणनं करोति। अर्थात्, एषः देशे चलचित्र-प्रमाणीकरणस्य प्रमुखं संस्थानम् अस्ति, यः निश्चितं करोति यत् कस्यचित् चलचित्रस्य कस्य श्रेण्यां प्रकाशनं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता