त्रिदिवसीय कार्यशालायां नव नूतन पाठ्यक्रमो विकसितः - प्रो. सत्यकामः
-मुक्त विश्वविद्यालये स्नातक रोजगार योग्यतायां त्रिदिवसीया कार्यशाला प्रयागराजः, 06मईमासः (हि.स)।उत्तरप्रदेशराजर्षिटण्डनमुक्तविश्वविद्यालये “कोर्स एन्हान्समेण्ट फॉर ग्रेजुएट एम्प्लॉयबिलिटी” इति विषये आयोजितायाः त्रिदिवसीयकार्यशालायाः समापनं बुधव
सम्बोधित करते कुलपति


-मुक्त विश्वविद्यालये स्नातक रोजगार योग्यतायां त्रिदिवसीया कार्यशाला

प्रयागराजः, 06मईमासः (हि.स)।उत्तरप्रदेशराजर्षिटण्डनमुक्तविश्वविद्यालये “कोर्स एन्हान्समेण्ट फॉर ग्रेजुएट एम्प्लॉयबिलिटी” इति विषये आयोजितायाः त्रिदिवसीयकार्यशालायाः समापनं बुधवासरे सम्पन्नम्। अस्यां कार्यशालायां स्नातकानां जीविकायोग्यतावर्धनस्य उद्देश्येन नव नवीनाः शैक्षणिककार्यक्रमाः विकसिताः।

अस्मिन् अवसरे कुलपतिः प्रोफेसर सत्यकामः उक्तवान् यत् यत्र एकतः अस्यां त्रिदिवसीयकार्यशालायां नव नवीनाः पाठ्यक्रमाः विकसिताः, तत्र विश्वविद्यालयः आगामिषु त्रिषु मासेषु अधिकानां व्यावसायिकपाठ्यक्रमाणां रूपरेखानिर्माणविकासयोः योजना अपि करोति। अस्मिन् कार्ये सर्वेषां युवा-अध्यापकानां मेधाशक्तेः उपयोगः भविष्यति। तेन उक्तं यत् एते पाठ्यक्रमाः “मैसिव ओपन ऑनलाइनपाठ्रक्रमाः” (मूक्स्) इत्यस्य माध्यमेन सञ्चालिताः भविष्यन्ति, येन ते अधिकाधिकजनान् प्रति प्राप्नुयुः तथा समाजे उपयोगिनः सिद्ध्येयुः।

तेन उक्तं यत् विश्वविद्यालयः शिक्षाक्षेत्रे सर्वकारीयप्रयत्नानाम् अनुरूपं स्वप्रयत्नान् अग्रे नयति तथा तादृशान् पाठ्यक्रमान् विकसितवान् ये विपण्याः अपेक्षाः पूरयेयुः तथा छात्राणां रोजगारयोग्यतां वर्धयेयुः। प्रो सत्यकामः उक्तवान् यत् कार्यशालायाः मुख्योद्देश्यः तादृशानाम् अभिनवानाम् अन्तर्विषयकपाठ्यक्रमाणां रूपरेखानिर्माणम् आसीत्, ये जीविकास्वजीविकयोः अवसरान् स्रष्टुं समर्थाः स्युः।

कॉमनवेल्थ ऑफ लर्निङ्ग्-सेमका-परियोजनायाः परामर्शदाता प्रदीपकुमारचौधरी उक्तवान् यत् कार्यशालायां निर्मिताः पाठ्यक्रमाः आगामिकाले समाजाय अत्यन्तोपयोगिनः भविष्यन्ति। तेन परामर्शो दत्तः यत् भारतस्य अन्यविश्वविद्यालयैः अपि यूपीआरटीओयू-विश्वविद्यालयेन विकसिताः एते पाठ्यक्रमाः स्वपाठ्यक्रमेषु समाविशेयुः, येन कौशलाधारितशिक्षायाः प्रोत्साहनं भवेत्।

कार्यक्रमसंयोजकः डॉ. त्रिविक्रमतिवारी वर्तमानकाले परिवर्तमानानां जीविकापेक्षाणां सन्दर्भे शैक्षणिकनवाचारस्य महत्त्वं प्रकाशितवान्। कार्यशालायाः प्रतिवेदनं प्रस्तुत्य आयोजनसचिवः डॉ. गौरवसंकल्पः उक्तवान् यत् अस्याः कार्यशालायाः उद्देश्यं वर्तमानपरिप्रेक्ष्ये स्नातकरोजगारयोग्यतायाः अवधारणां ज्ञातुं तस्याः महत्त्वं च प्रकाशयितुम् आसीत्। तथैव वर्तमानशैक्षणिकपाठ्यक्रमाणां उद्योगक्षेत्रस्य अपेक्षाणां च मध्ये विद्यमानान्तरस्य परिचयः अपि प्रमुखलक्ष्यम् आसीत्। तेन उक्तं यत् पाठ्यक्रमाणां पुनर्रचना कृत्वा तान् अधिककौशलाधारितान् रोजगारोन्मुखान् च कर्तुं विशेषध्यानं दत्तम्।

विश्वविद्यालयस्य जनसम्पर्काधिकारी डॉ. प्रभातचन्द्रमिश्रः उक्तवान् यत् एषा कार्यशाला “ग्रेजुएट एम्प्लॉयबिलिटी परियोजनायाः” अन्तर्गतं कॉमनवेल्थ ऑफ लर्निङ्ग् तथा कॉमनवेल्थ एजुकेशनल मीडिया सेण्टर फॉर एशिया इत्येतयोः सहयोगेन ४ मईतः ६ मईपर्यन्तं आयोजिताऽभूत्। एषा कार्यशाला कौशलाधारितशिक्षायाः सुदृढीकरणे तथा अभिनवपाठ्यक्रमविकासस्य माध्यमेन स्नातकानां जीविकायोग्यतावर्धने महत्त्वपूर्णं पदं सिद्धा। अन्ते धन्यवादज्ञापनं प्रो आनन्दानन्दत्रिपाठिना कृतम्।

हिन्दुस्थान समाचार