Enter your Email Address to subscribe to our newsletters

चेन्नई, 06 मईमासः (हि.स.)।
तमिलनाडुराज्ये शासनगठनार्थं कांग्रेसदलस्य समर्थनघोषणायाः अनन्तरं तमिलगा वेत्री कषगम् (टीवीके) दलस्य मार्गः सुस्पष्टः अभवत्। बुधवासरे मध्याह्ने टीवीकेदलस्य नेता विजयः राज्यपालं राजेन्द्रविश्वनाथअर्लेकरमहाशयं समागत्य शासनगठनस्य दावा प्रस्तुतवान्।
अस्मिन् वारे विधानसभानिर्वाचनपरिणामैः राज्यस्य राजनीतिक्षेत्रे महान् परिवर्तनः समागतः। तमिलनाडुजनतया अस्मिन् वारे एआईएडीएमके तथा डीएमके दलयोः अपेक्षया नवोदितायै टीवीकेदले व्यापकसमर्थनं प्रदत्तम्, किन्तु कस्यापि दलस्य स्पष्टबहुमतं न प्राप्तम्, येन विधानसभायां त्रिशङ्कुस्थितिः अभवत्। एवं परिस्थितौ राज्यस्य बृहत्तमदलरूपेण उदितायै टीवीकेदले कांग्रेसदलेन समर्थनं प्रदाय गठबन्धनशासनगठनस्य मार्गः सुलभः कृतः।
नवीनघटनाक्रमे टीवीकेदलस्य नेता विजयः अद्य राज्यभवनं गत्वा राज्यपालं राजेन्द्रविश्वनाथअर्लेकरमहाशयं समभाषत। अस्याः भेंटायाः समये राज्यपालेन विजयाय शालां परिधाप्य अभिनन्दनं कृतं स्मृतिचिह्नं च प्रदत्तम्। ततः अनन्तरं विजयेण शासनगठनार्थं आमन्त्रणप्रदानस्य अनुरोधः कृतः, समर्थनं कुर्वतां विधायकानां पत्राणि अपि राज्यपालाय समर्पितानि।
राज्यपालसमागमस्य समये टीवीकेदलस्य नेतारः पुस्सीआनन्दः, सेङ्गोट्टैयन् तथा आदवअर्जुनः अपि उपस्थिताः आसन्। मन्यते यत् शपथग्रहणसमारोहः गुरुवासरे प्रातः ११:३० वादने भविष्यति, अस्मिन् समारोहे लोकसभायाः विपक्षनेता राहुलगान्धी अपि सहभागी भवितुम् अर्हति। अस्य विषये अधुना आधिकारिकसूचनायाः प्रतीक्षा क्रियते।
---------------
हिन्दुस्थान समाचार