हर अपेक्षाः निर्मेयुः आयुष्मानपत्रम् : मुख्यमंत्री योगी
-मुख्यमंत्री योगी निरंतरं द्वितीये दिने जनता दर्शने 200 जनानाम्अशृणोत् समस्याः गोरखपुरम्, 06 मईमासः (हि.स.)। Yogi Adityanath गोरखपुर-प्रवासस्य अवसरे निरन्तर-द्वितीय-दिने बुधवासरे प्रातःकाले गोरखनाथ-मन्दिरे आयोजिते जनता-दर्शने जनैः सह मिलित्वा तेष
जनता दर्शन के दौरान जनसुनवाई करते मुख्यमंत्री योगी


-मुख्यमंत्री योगी निरंतरं द्वितीये दिने जनता दर्शने 200 जनानाम्अशृणोत् समस्याः

गोरखपुरम्, 06 मईमासः (हि.स.)। Yogi Adityanath गोरखपुर-प्रवासस्य अवसरे निरन्तर-द्वितीय-दिने बुधवासरे प्रातःकाले गोरखनाथ-मन्दिरे आयोजिते जनता-दर्शने जनैः सह मिलित्वा तेषां समस्याः अशृणोत्। जनता-दर्शने गम्भीर-रोगाणां चिकित्सार्थम् आर्थिक-सहायतायाः याचनां कृत्वा आगतान् जनान् प्रति तेन आयुष्मान-कार्डस्य विषये पृष्टं, तथा च आश्वासनं दत्तं यत् सरकारः चिकित्सायां पूर्णतया सहायता करिष्यति। मुख्यमन्त्रिणा समीपस्थितान् अधिकारिणः निर्देशिताः यत् प्रत्येकस्य आवश्यकतायुक्तस्य पात्र-व्यक्तेः आयुष्मान-कार्ड-निर्माणं सुनिश्चितं क्रियताम्, येन चिकित्सार्थं तेषां काचिदपि समस्या न भवेत्।

महंतदिङ्विजयनाथस्मृतिभवनस्य बहिः आयोजिते जनता-दर्शने मुख्यमन्त्री योगी प्रायः द्विशतं जनान् अमिलत्। सः तेषां समीपं गत्वा तेषां समस्याः अशृणोत्। तेषां प्रार्थना-पत्राणां परीक्षणं कृत्वा समस्या-शिकायतयोः संज्ञानं गृहीतवान्। अस्मिन् अवसरे मुख्यमन्त्री जनान् उक्तवान् यत् ते चिन्तिताः मा भवेयुः, सरकारः प्रत्येकस्य आवश्यकतायुक्तस्य जनस्य सह स्थितवती अस्ति। तेन विभिन्न-विषयाणां कृते सम्बन्धित-प्रशासनिक-पुलिस-अधिकारिणः प्रति प्रार्थना-पत्राणि प्रेषयित्वा निर्देशाः दत्ताः यत् सर्वासां समस्याणां समयबद्धं निष्पक्षं सन्तोषजनकं च समाधानं भवेत्।

जनता-दर्शने प्रतिवारवत् बुधवासरे अपि केचन जनाः चिकित्सार्थम् आर्थिक-सहायतायाः याचनां कृत्वा आगतवन्तः। मुख्यमन्त्री तान् प्रति आयुष्मान-पत्रस्य विषये अपृच्छत्, तथा च विश्वासं दत्तवान् यत् धनाभावात् कस्यापि चिकित्सायाः अवरोधः न भविष्यति। चिकित्सालयस्य व्यय-निर्धारणं प्राप्तमात्रेण विवेकाधीन-कोषात् आर्थिक-सहायता प्रदास्यते। जनता-दर्शने मुख्यमन्त्री अधिकारिणः उक्तवान् यत् जनानां सर्वासां पीडानां निवारणं सुनिश्चितं क्रियताम्। अस्मिन् विषये कापि शिथिलता न भवेत्।

जनता-दर्शने कासाञ्चन महिलानां सह तासां बालकाः अपि आगतवन्तः। मुख्यमन्त्री बालकान् स्नेहेन आलिङ्ग्य आशीर्वादं चॉहलेहं च दत्तवान्। अस्मिन् समये तेन एकस्याः महिलायाः सह आगताभ्यां द्वाभ्यां बालकाभ्यां सह हास्य-विनोदः कृतः, तथा च तौ विद्यालयं गन्तुं प्रेरितौ।

हिन्दुस्थान समाचार