Enter your Email Address to subscribe to our newsletters

हाथरस-नगरम्। खाटू-श्याम-मन्दिरस्य पञ्चम-वार्षिकोत्सवस्य अन्तर्गतं आयोजितस्य त्रिदिवसीय-धार्मिक-कार्यक्रमस्य द्वितीये दिने बुधवासरे भव्य-निषाण-यात्रा निर्गता। आगरा-गेट-क्षेत्रे स्थितात् श्री-महाराजा-अग्रसेन-सेवा-सदनात् सूरतगढात् आगतेन विशाल-निषाणेन सह षट्सहस्र-शताधिक (६१००) निषाणानां एषा यात्रा सम्पूर्णे नगरे श्रद्धा-उत्साह-भक्ति-परिपूर्णे वातावरणे निर्वूढा।
निषाण-यात्रायाः पूर्वं सेवा-सदने पूर्व-विधायकः देवेन्द्र-अग्रवालः, भाजपा-नेता धर्मेन्द्र-गौतमः तथा मन्दिर-समितेः सर्वे पदाधिकारीभिः सूरतगढात् आगतस्य पवित्र-निषाणस्य विधिपूर्वकं पूजार्चनं कृतम्। ततः सुसज्जितप्रदर्शिन्यां विराजमानस्य बाबा-खाटू-श्यामस्य आरार्तिका कृता, यात्रायाः शुभारम्भः अभवत्। यात्रायां महिलाः, युवान:, बालकाः च सहिताः बहुसंख्यया श्रद्धालवः सहभागी अभवन्। भक्तजनाः हस्तेषु खाटू-नरेशस्य निषाणानि धारयन्तः भजन-कीर्तनं कुर्वन्तः अग्रे गच्छन्तः आसन्। सर्वत्र “हारे के सहारे, बाबा खाटू श्याम हमारे” इति जयघोषाः अनुनादिताः। बहुषु स्थलेषु स्थानीय-जनैः पुष्पवृष्ट्या यात्रायाः स्वागतं कृतम्, जलपान-व्यवस्था अपि कृता।
निषाण-यात्रा महाराजा-अग्रसेन-सेवा-सदनात् आरभ्य कृष्ण-टॉकीज्, जवाहर-विपणम्, चौकविपणम्, रोडवेज-बस-स्थानकं, सादाबाद-इण्टर-कॉलेज-इत्यादीन् प्रमुख-मार्गान् अतिक्रम्य विद्युत्गृह-मार्गे स्थितं गोवर्धन-धाम श्री-खाटू-श्याम-मन्दिरं प्राप्तवती। तत्र प्राप्य श्रद्धालवः श्रद्धया बाबा-खाटू-श्यामाय निषाणानि समर्पितवन्तः तथा पूजार्चनं कृतवन्तः। समग्रे आयोजने मन्दिर-समितेः पदाधिकारीणः स्वयंसेवकाः च व्यवस्थां सुचारुं कर्तुं सक्रियाः आसन्। सम्मर्द-नियन्त्रणाय यातायात-व्यवस्थायाश्च विशेष-प्रबन्धाः कृताः, येन यात्रा शान्तिपूर्वकं सम्पन्ना अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता