Enter your Email Address to subscribe to our newsletters

लखनऊ, 06 मईमासः (हि.स.)।
उत्तरप्रदेशस्य विविधस्वादयुक्तसमृद्धभोजनपरम्परायाः नूतनपरिचयप्रदाने योगीआदित्यनाथसर्वकारेण महत् पदं स्थापितम्। ओडीओपी-योजनायाः आदर्शे “एकजनपद-एकव्यञ्जन” (ओडीओसी) इत्यस्य अन्तर्गतं प्रदेशस्य सर्वेषां ७५ जनपदानां प्रमुखपरम्परागतव्यञ्जनानां व्यापकमानचित्रणं सम्पन्नम्, येन अधुना प्रत्येकजनपदस्य स्वकीया विशेषभोजनपरिचयः निश्चितः अभवत्।
अस्यां योजनायाम् आग्रानगरस्य पेठा, मथुरायाः पेड़ा, वाराणस्याः लस्सी, जौनपुरस्य इमरती, गोरखपुरस्य समोसा, मेरठनगरस्य रेवड़ी-गजक, लखनऊनगरस्य मलाईमक्खन, सहारनपुरस्य मधु तथा मुजफ्फरनगरस्य गुड इत्यादीनि प्रसिद्धव्यञ्जनानि प्रमुखतया समाविष्टानि। तदतिरिक्तं कासगञ्जस्य सोनपापड़ी, अयोध्यायाः दधिजलेबी, बलियाजनपदस्य सत्तू, चित्रकूटस्य मावा तथा बागपतस्य घेवर इत्यादयः स्थानीयपरम्परागतस्वादाः अपि अस्यां सूच्यां समाविष्टाः।
प्रत्येकप्रदेशस्य पृथक् स्वादः, एकैव परिचयः— सद्यःएव मुख्यमन्त्रिणः योगीआदित्यनाथस्य अध्यक्षतायां सम्पन्नायां मन्त्रिमण्डलोपवेशने ओडीओसी-योजनायाः कार्यान्वयनप्रस्तावे अनुमोदनं दत्तम्। अस्याः योजनायाः अन्तर्गतं ब्रजप्रदेशस्य माधुर्यम्, अवधप्रदेशस्य समृद्धकचौड़ी-समोसासंस्कृतिः, पूर्वाञ्चलस्य देशीयस्वादः तथा बुन्देलखण्डस्य परम्परागतव्यञ्जनानि— एतानि सर्वाणि एकस्मिन् मञ्चे समानीय “टेस्ट ऑफ यूपी” इति अवधारणां सुदृढीकृत्य प्रदेशस्य खाद्यविविधतायाः एकीकृतपरिचयः प्रदीयते।
अस्याः योजनायाः प्रत्यक्षलाभः स्थानीयशिल्पिभ्यः, हलवायिभ्यः, लघुविक्रेतृभ्यः तथा खाद्यउद्यमिभ्यः भविष्यति। परम्परागतव्यञ्जनानां मागवृद्ध्या स्थानीयस्तरे रोजगारस्य नूतनावसराः उत्पत्स्यन्ते तथा लघुव्यवसायाः सुदृढाः भविष्यन्ति।
पर्यटनक्षेत्रे अपि वृद्धिः भविष्यति। राज्यसर्वकारस्य प्रवक्त्रा उक्तं यत् योगीसर्वकारः ओडीओसी-योजनां पर्यटनक्षेत्रेण सह सम्बद्ध्य खाद्यपर्यटनस्य प्रोत्साहनाय रणनीतिं निर्माति। अधुना पर्यटकाः यदा कस्यचित् जनपदस्य भ्रमणं करिष्यन्ति तदा तत्रत्यप्रसिद्धव्यञ्जनस्य आस्वादनम् अपि तेषां यात्रायाः अंशः भविष्यति। योगीसर्वकारस्य योजना अस्ति यत् एतानि व्यञ्जनानि उत्तमपैकेजिङ्ग्, ब्राण्डिङ्ग् तथा विपणनमाध्यमेन अन्ताराष्ट्रिस्तरं प्रति प्रेषयितुं शक्यन्ते। अनेन न केवलं उत्तरप्रदेशस्य स्वादस्य वैश्विकपरिचयः भविष्यति, अपितु राज्यस्य सांस्कृतिकप्रतिमा अपि अधिकं सुदृढा भविष्यति।
उत्तरप्रदेशस्य सर्वेषां ७५ जनपदानां प्रमुखव्यञ्जनानि अपि निर्धारितानि सन्ति, ये प्रदेशस्य पारम्परिकभोजनसंस्कृतेः समृद्धिं, विविधतां तथा स्थानीयविशेषतां प्रदर्शयन्ति।
---------------
हिन्दुस्थान समाचार