बीएचयू-वैज्ञानिकैः मूत्रमाध्यमेन मूत्राशय-कर्कट-रोगस्य प्रारम्भिक-निदानाय नूतना-प्रौद्योगिकी विकसिताऽस्ति
वाराणसी-नगरम्, ०६ मईमासः (हि.स.)। काशी-हिन्दू-विश्वविद्यालयस्य (बीएचयू) विज्ञान-संस्थानस्य जैव-प्रौद्योगिकी-विभागस्य शोधकर्तृभिः चिकित्सा-विज्ञान-संस्थानस्य यूरोलॉजी-विभागस्य सहकारेण मूत्राशय-कर्कट-रोगस्य (यूबीसी) प्रारम्भिक-पहचानाय नूतना मूत्र-आधा
शोध टीम के सदस्य


वाराणसी-नगरम्, ०६ मईमासः (हि.स.)। काशी-हिन्दू-विश्वविद्यालयस्य (बीएचयू) विज्ञान-संस्थानस्य जैव-प्रौद्योगिकी-विभागस्य शोधकर्तृभिः चिकित्सा-विज्ञान-संस्थानस्य यूरोलॉजी-विभागस्य सहकारेण मूत्राशय-कर्कट-रोगस्य (यूबीसी) प्रारम्भिक-पहचानाय नूतना मूत्र-आधारित-गैर-आक्रामक-प्रौद्योगिकी विकसिताऽस्ति।

एषः शोधः डॉ.समरेन्द्र-कुमार-सिंह: तथा डॉ.ललित-कुमार: इत्यनयोः नेतृत्वे, डॉ.गरिमा-सिंह:, डॉ.अनिल-कुमार:, सृष्टि-भट्टाचार्यादीनां सहयोगेन सम्पन्नः। अयं शोधः अन्ताराष्ट्रिय-पत्रिकायां बीएमसी यूरोलॉजी (२०२६) प्रकाशितः।

शोधकर्तृभिः उक्तं यत् मूत्रे उपस्थिताः एक्सोसोमल-माइक्रोआरएनए कर्कट-रोगस्य निदानाय स्थिराः विश्वसनीयाः च बायोमार्कराः सन्ति। त्रि-माइक्रोआरएनए-संयोजनस्य पक्ष: ९० प्रतिशतात् अधिकां संवेदनशीलतां दर्शितवान्, येन एषा विधिः अत्यन्तं प्रभावी प्रारम्भिक-निदान-उपकरणं भवितुम् अर्हति।

अध्ययने एतदपि ज्ञातम् यत् एते बायोमार्कराः रोग-चरणानुसारं भिन्न-स्तरे व्यक्ताः भवन्ति, अतः न केवलं प्रारम्भिक-परिचयं, अपि तु रोग-प्रगतेः निरीक्षणम् अपि सम्भवति।

प्रमुख-अन्वेषकः डॉ.समरेन्द्र-कुमार-सिंहः उक्तवान् यत् एषः शोधः कर्कट-निदान-क्षेत्रे महत्त्वपूर्णः प्रगतिपदः अस्ति। केवलं मूत्र-नमूनया निदानं भविष्ये प्रक्रियाम् अधिकं सरलां रोगी-अनुकूलां च करिष्यति। सह-अन्वेषकः डॉ.ललित-कुमारः अपि उक्तवान् यत् एषा विधिः कर्कट-निदान-क्षेत्रे क्रान्तिकारि-परिवर्तनस्य संकेतं ददाति।

हिन्दुस्थान समाचार / अंशु गुप्ता