Enter your Email Address to subscribe to our newsletters


वाराणसी-नगरम्, ०६ मईमासः (हि.स.)। उत्तर-प्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः बुधवासरे वाराणसी-नगरं प्राप्तः। गोरखपुर-नगरात् तस्य हेलीकॉप्टरविमानं पुलिस-लाइन-स्थिते हेलीपैड-इत्यत्र अवतीर्णम्, यत्र पूर्वमेव उपस्थिताः भाजपापक्षस्य पदाधिकारिणः, जनप्रतिनिधयः तथा प्रशासनिक-अधिकारीणः मुख्यमन्त्रिणः स्वागतं कृतवन्तः।
पुलिस-लाइनतः मुख्यमन्त्री कठोर-सुरक्षायाः मध्ये वाहन-समूहेन सह सर्किट-हाउस आगतः। अत्र किञ्चित्कालं स्थित्वा सः भोजूबीर-स्थिते उदय-प्रताप-महाविद्यालये अर्थशास्त्रस्य प्राध्यापकस्य डॉ.राजीव-कृष्णस्य गृहे आयोजिते मांगलिक-समारोहे सहभागित्वं कृतवान्। अत्र सः किञ्चित्कालं परिवारजनैः सह संवादं कृत्वा तैः सह सामूहिक-छायाचित्रम् अपि गृहीतवान्। ततः अनन्तरं सः कालभैरव-मन्दिरं गत्वा दर्शन-पूजनं कृतवान्। मन्दिरे विधि-विधानपूर्वकं पूजनानन्तरं मुख्यमन्त्री आरार्तिकीम् अपि कृतवान्। कालभैरव-मन्दिरात् सः श्रीकाशी-विश्वनाथ-मन्दिरं गत्वा दर्शन-पूजनं करिष्यति। नगरे स्थिते सः सर्किट-हाउस-मध्ये विकास-कार्याणां समीक्षां कृत्वा प्रयागराज-नगरं गमिष्यति।
उल्लेखनीयम् यत् मुख्यमन्त्री मङ्गलवासरे सायंकाले एव काशी-नगरं आगन्तुम् आसीत्, किन्तु गोरखपुर-नगरे शिक्षामित्राणां धनाहरणपत्र-वितरण-कार्यक्रमे विलम्बात् तस्य यात्रा निरस्ताभवत्। नगरे मुख्यमन्त्रिणः आगमनस्य दृष्ट्या तस्य कार्यक्रम-स्थलानि तथा आवागमन-मार्गाः ‘नो-फ्लाई-जोन’ इति घोषिताः, तथा सुरक्षा-विन्यासः अपि विस्तीर्णरूपेण कृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता