Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०६ मईमासः (हि.स.)। केन्द्रीय-वाणिज्य-उद्योग-मन्त्री पीयूष-गोयलः अद्य नवदेहली-नगरे एयरबस-इण्डिया-दक्षिण-एशिया-प्रमुखेन जुर्गन-वेस्टरमीयर इत्यनेन सह साक्षात्कारं कृतवान्।
अस्मिन् साक्षात्कारे भारते एयरोस्पेस-विनिर्माणस्य तथा विमानन-क्षेत्रस्य क्षमतानां विस्तार-विषये चर्चा अभवत्। मुख्य-विषयाः भारतात् स्रोत-वृद्धिः, एयरोस्पेस-विनिर्माणस्य सुदृढीकरणं, आपूर्ति-शृङ्खलायाः विस्तारः, रखरखाव-मरम्मत-संचालन-क्षमतानां (MRO) उन्नयनं तथा कौशल-विकास-योजनानां सुदृढीकरणं च आसन्।
सः उक्तवान् यत् भारतं वैश्विक-विमानन-केन्द्रत्वेन विकसितुं प्रयत्नशीलम् अस्ति तथा एतदर्थं अधिक-स्थानीयकरणं प्रोत्साह्यते। वैश्विक-एयरोस्पेस-निर्माण्य: भारतं स्थिर-उत्पादन-तथा आपूर्ति-केन्द्रत्वेन पश्यन्ति इति अपि चर्चितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता