पश्चिम बंगाले विजयीप्रत्याशिनां सूच्या सह राज्यपालेन सहामिलत् मुख्यनिर्वाचनाधिकारी
कोलकाता, 06 मईमासः (हि.स.)। पश्चिमबङ्गराज्ये नवीनशासनगठनस्य प्रक्रिया अधुना तीव्रगत्या प्रचलति। बुधवासरे राज्यस्य मुख्यनिर्वाचनाधिकारी मनोजकुमारअग्रवालः लोकभवनं गत्वा राज्यपालं आरएन रवि महोदयम् असाक्षात्कृतवान्। तेन सह निर्वाचनआयोगस्य उच्चस्तरीयप
पश्चिम बंगाले विजयीप्रत्याशिनां सूच्या सह राज्यपालेन सहामिलत् मुख्यनिर्वाचनाधिकारी


कोलकाता, 06 मईमासः (हि.स.)।

पश्चिमबङ्गराज्ये नवीनशासनगठनस्य प्रक्रिया अधुना तीव्रगत्या प्रचलति। बुधवासरे राज्यस्य मुख्यनिर्वाचनाधिकारी मनोजकुमारअग्रवालः लोकभवनं गत्वा राज्यपालं आरएन रवि महोदयम् असाक्षात्कृतवान्। तेन सह निर्वाचनआयोगस्य उच्चस्तरीयप्रतिनिधिमण्डलम् अपि उपस्थितम् आसीत्।

अस्मिन् समये निर्वाचनआयोगेन प्रकाशितायाः नवीनविधानसभागठनस्य आधिकारिकाधिसूचना राज्यपालाय समर्पिता। तथैव २०२६ तमवर्षस्य विधानसभानिर्वाचने विजयीभूतानां २९४ स्थानानां प्रत्याशिनां प्रमाणपत्रसम्बद्धदस्तावेजाः अपि प्रस्तुताः।

लोकभवनस्य ऐतिहासिके “थ्रोन हॉल” इति सभागृहे राज्यपालस्य निर्वाचनआयोगस्य अधिकारिणां च मध्ये दीर्घकालपर्यन्तं चर्चा अभवत्। समागमानन्तरं सर्वे अधिकारिणः सह मिलित्वा छायाचित्रग्रहणकार्यक्रमे अपि सहभागिनः अभवन्।

अनेन समागमेन राज्ये नवीनशासनगठनस्य मार्गः पूर्णतया सुस्पष्टः अभवत्, अधुना शासनगठनसम्बद्धाः अन्तिमसज्जताः तीव्रतया क्रियमाणाः सन्ति।

---------------

हिन्दुस्थान समाचार