Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 06 मईमासः (हि.स.)।
कुमाऊँमण्डलविकासनिगमस्य (केएमवीएन) संचालनाधीना आदिकैलाश-ओम्पर्वतयात्रायाः प्रथमः दलः आगामि शुक्रवासरे ८ मई दिनाङ्के प्रातः ८ वादने हल्द्वानीनगरात् प्रस्थितः भविष्यति। अस्मिन् दले विंशतिः यात्रिकाः सहभागिनो भविष्यन्ति।
निगमस्य व्यवसायविकासप्रबन्धकः दीपकपाण्डे महोदयः उक्तवान् यत् आदिकैलाश-ओम्पर्वतयात्रायां श्रद्धालूनां प्रथमं दलं शुक्रवासरे तिकोणियास्थितात् लोकनिर्माणविभागस्य विश्रामगृहात् स्वयात्रां प्रारभिष्यति। यात्राकाले श्रद्धालवः प्रथमदिने कैंचीधाम, चितईगोलूदेवतामन्दिरं तथा जागेश्वरधामस्य दर्शनं करिष्यन्ति। ततः अनन्तरं दलः पर्यटकावासगृहे जागेश्वरे मध्याह्नभोजनं करिष्यति, पश्चात् पिथौरागढनगरस्य कृते प्रस्थानं करिष्यति।
तेन उक्तं यत् प्रथमयात्रादले कुलं २० यात्रिकाः सन्ति, येषु १३ महिलायात्रिकाः तथा ७ पुरुषयात्रिकाः सन्ति। निगमस्य पक्षतः यात्रिकाणां सुविधासुरक्षयोः कृते आवश्यकव्यवस्थाः सुनिश्चिताः कृताः सन्ति।
हिन्दुस्थान समाचार