अरविन्द-मार्डीकरः द्वितीयवारम् हि.स.-संस्थायाः निर्विरोध-अध्यक्षरूपेण निर्वाचितः
नव-दिल्ली, ०७ मईमासः (हि.स.)। अरविन्द-भालचन्द्र-मार्डीकरः पुनरेकवारं हिन्दुस्थान-समाचार-बहुभाषी-वार्ता-संस्थायाः निर्विरोध-अध्यक्षरूपेण निर्वाचितः। बुधवासरे (०६ मई) नव-दिल्ल्यां सम्पन्नायां हिन्दुस्थान-समाचार-सहकारी-समितेः (लि.) विशेष-वार्षिक-सभाया
a0537d108a724b3107bb932c81317b5f_91656501.jpg


2bfb6b97cbc632de93812a25627ec246_1012022840.jpg


नव-दिल्ली, ०७ मईमासः (हि.स.)। अरविन्द-भालचन्द्र-मार्डीकरः पुनरेकवारं हिन्दुस्थान-समाचार-बहुभाषी-वार्ता-संस्थायाः निर्विरोध-अध्यक्षरूपेण निर्वाचितः। बुधवासरे (०६ मई) नव-दिल्ल्यां सम्पन्नायां हिन्दुस्थान-समाचार-सहकारी-समितेः (लि.) विशेष-वार्षिक-सभायां सः निरन्तरं द्वितीयवारम् अध्यक्ष-पदे निर्विरोधं निर्वाचितः। तेन सह वरिष्ठ-पत्रकारः रामबहादुर-रायः तथा प्रसिद्धः समाजसेवी रविन्द्र-मनिलाल-संघवी पुनरेकवारं निदेशक-मण्डलस्य सदस्यरूपेण निर्वाचितौ।

नव-दिल्ली-स्थिते इन्दिरा-गान्धी-राष्ट्रीय-कला-केन्द्रम् इत्यस्य उमङ्ग-सभागारे आयोजितायां हि.स.-संस्थायाः विशेष-वार्षिक-सामान्य-सभायां अस्मिन् वर्षे निर्वाचन-सभा अपि अभवत्। अस्याम् नव-निदेशक-मण्डलस्य गठनेन सह अध्यक्षस्य निर्वाचनम् अपि सम्पन्नम्। अग्रिम-त्रिवर्षीय-कार्यकालाय नागपुर-निवासी अरविन्द-भालचन्द्र-मार्डीकरः पुनरेकवारं निर्विरोध-अध्यक्षरूपेण निर्वाचितः। अस्मात् पूर्वं २०२३ तमे वर्षे सः प्रथमवारम् अध्यक्ष-पदाय निर्विरोधं निर्वाचितः आसीत्। अग्रिम-त्रिवर्षीय-कार्यकालाय रामबहादुर-रायः तथा रविन्द्र-मनिलाल-संघवी (मुम्बई) पुनरेकवारं निदेशक-मण्डलस्य सदस्यरूपेण निर्वाचितौ।

वरिष्ठ-पत्रकारः तथा पूर्व-प्रधानमन्त्रिणः अटल-बिहारी-वाजपेयी इत्यस्य माध्यम-परामर्शदाता अशोक-टण्डन निदेशक-मण्डलस्य नूतन-निर्वाचित-सदस्यः भविष्यति। तेन सह पूर्वं विशेष-आमन्त्रित-सदस्यरूपेण सम्मिलितौ परेशकान्त-प्रेम-मनोहर-माङ्गलिक (मुम्बई) तथा मङ्गल-प्रताप-पाण्डेयः (राँची) निदेशक-मण्डलस्य सदस्यरूपेण निर्वाचितौ। इन्दौर-नगरस्य प्रसिद्धः व्यवसायी कमल-कान्त-वशिष्ठः निदेशक-मण्डले नूतन-सदस्यरूपेण निर्वाचितः। अधिवक्ता तथा निर्वाचन-अधिकारी अजित-कुमारः नियमानुसारं निर्वाचन-प्रक्रियां सम्पन्नंन कृतवान्।

पुनरेकवारं अध्यक्षरूपेण निर्वाचिते सति निदेशक-मण्डलस्य सर्वे सदस्याः अरविन्द-भालचन्द्र-मार्डीकरस्य अभिनन्दनम् अकुर्वन्। वरिष्ठ-पत्रकारः रामबहादुर-रायः तस्य पूर्व-कार्यकालस्य अद्यावधि-यात्रायाश्च उल्लेखनीय-उपलब्धीः प्रकाशयन् अवदत् यत् सः सर्वासां समस्यानां सम्मुखिनं कृत्वा हि.स.-संस्थां सर्वोपरि स्थापितवान्। रविन्द्र-मनिलाल-संघवी अवदत् यत् अखण्ड-ऊर्जया पूर्णस्य अस्माकम् अध्यक्षस्य हस्तयोः हि.स.-संस्थायाः भविष्यं सुरक्षितम् अस्ति तथा संस्था निरन्तरं प्रगतिपथे अग्रे गच्छति। निदेशक-मण्डलस्य सदस्यैः अरविन्द-मार्डीकरस्य कार्यकाले हि.स.-संस्थायाः आर्थिक-सुदृढता, विविध-कार्यक्रमैः संस्थायाः विस्तारः तथा विश्वसनीयता-प्रतिष्ठयोः वृद्धिः इत्यादीनां कृते तस्य बहु प्रशंसा कृता। धन्यवाद-ज्ञापन-समये अरविन्द-भालचन्द्र-मार्डीकरः अस्य सर्वस्य श्रेयः संस्थायां कार्यरत-सहयोगिनां परिश्रमाय संस्थां प्रति निष्ठायै च अर्पितवान्।

उल्लेखनीयम् अस्ति यत् २०१६ तमे वर्षे यदा हि.स.-संस्थायाः संचालनं सुप्रसिद्ध-उद्योगिने तथा एस.आई.एस.के.-संस्थापकाय आर.के.-सिन्हा समर्पितम् आसीत्, तदा अरविन्द-भालचन्द्र-मार्डीकरः निदेशक-मण्डलस्य सदस्यरूपेण सम्मिलितः आसीत्। मई-मासे २०१८ तमे वर्षे सम्पन्नायां वार्षिक-सामान्य-सभायां सः उपाध्यक्षरूपेण निर्वाचितः। २०२० तमे वर्षे कोविड्-महामारीकाले अत्यन्त-समस्यापूर्ण-परिस्थितौ तस्मै कार्यकारी-अध्यक्षस्य दायित्वं समर्पितम्। ततः परम् अप्रैल-मासे २०२२ तमे वर्षे आर.के.-सिन्हा इत्यस्य त्यागपत्रानन्तरं शेष-एकवर्षीय-कार्यकालाय सः अध्यक्षरूपेण मनोनीतः। मई-मासे २०२३ तमे वर्षे सः प्रथमवारं अध्यक्ष-पदाय निर्विरोधं निर्वाचितः आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता