अरविन्द-मार्डीकरः द्वितीयवारं हिन्दुस्थान-समाचारस्य निर्विरोध-अध्यक्षत्वेन निर्वाचितः
नवदेहली, 07 मईमासः (हि.स.)।अरविन्द-भालचन्द्र-मार्डीकरः एकवारं पुनः हिन्दुस्थान-समाचार बहुभाषी-न्यूज-एजेंसी इत्यस्य निर्विरोध-अध्यक्षः निर्वाचितः जातः। बुधवासरे (०६ मईदिनाङ्के) नवदेहल्यां जातायां हिन्दुस्थान-समाचार-सहकारी-समिति (लि.) इत्यस्याः विशेष
नई दिल्ली के इं.गां.राष्ट्रीय कला केन्द्र में बुधवार को अध्यक्ष निर्वाचित होने पर अरविन्द भालचन्द्र मार्डीकर का अभिनंदन करते वरिष्ठ पत्रकार रामबहादुर राय। फोटो  - हिन्दुस्थान समाचार


नवदेहली, 07 मईमासः (हि.स.)।अरविन्द-भालचन्द्र-मार्डीकरः एकवारं पुनः हिन्दुस्थान-समाचार बहुभाषी-न्यूज-एजेंसी इत्यस्य निर्विरोध-अध्यक्षः निर्वाचितः जातः। बुधवासरे (०६ मईदिनाङ्के) नवदेहल्यां जातायां हिन्दुस्थान-समाचार-सहकारी-समिति (लि.) इत्यस्याः विशेष-वार्षिक-सभायां सः निरन्तरं द्वितीयवारम् अध्यक्षपदे निर्विरोधं निर्वाचितः। एतेन सह वरिष्ठ-पत्रकारः पद्म-विभूषण-रामबहादुर-रायः, प्रसिद्ध-समाजसेवी-रवीन्द्र-मणिलाल-सिंघवी पुनः एकवारं निदेशक-मण्डलस्य सदस्याः निर्वाचिताः।

​नव-देहली-स्थिते इन्दिरा-गांधी-राष्ट्रीय-कला-केन्द्रस्य उमङ्ग-सभागारे आयोजिता हिन्दुस्थान-समाचारस्य विशेष-वार्षिक-सामान्य-सभा अस्मिन् वर्षे निर्वाचन-सभा अपि आसीत्। अस्मिन् नूतन-निदेशक-मण्डलस्य गठनेन सह एव अध्यक्षस्य निर्वाचनमपि अभवत्। अग्रिम-वर्षत्रयाय नागपुर-निवासी अरविन्द-भालचन्द्र-मार्डीकरः एकवारं पुनः निर्विरोध-अध्यक्षः निर्वाचितः। इतः पूर्वं २०२३ तमे वर्षे सः प्रथमवारं अध्यक्षपदाय निर्विरोधं निर्वाचितः आसीत्। अग्रिम-वर्षत्रयस्य कार्यकालाय पद्म-विभूषण-रामबहादुर-रायः तथा रवीन्द्र-मणिलाल-सिंघवी (मुम्बई) पुनः एकवारं निदेशक-मण्डलस्य सदस्याः निर्वाचिताः।

​वरिष्ठ-पत्रकारः तथा पूर्व-प्रधानमन्त्रिणः अटल-बिहारी-वाजपेयी-महोदयस्य मीडिया-परामर्शदाता अशोक-टण्डनः निदेशक-मण्डलस्य नूतन-निर्वाचित-सदस्यः भविष्यति। एतेन सह पूर्वं विशेष-आमन्त्रित-सदस्य-रूपेण सम्मिलिताः परेशकान्त-प्रेम-मनोहर-माङ्गलिकः (मुम्बई) एवं मङ्गल-प्रताप-पाण्डेयः (राँची) निदेशक-मण्डलस्य सदस्याः निर्वाचिताः। इन्दौर-नगरस्य प्रसिद्ध-व्यवसायी कमल-कान्त-वशिष्ठः निदेशक-मण्डले नूतन-सदस्य-रूपेण निर्वाचितः अस्ति। अधिवक्ता च निर्वाचन-अधिकारी अजित-कुमारः नियमानुसारं निर्वाचन-प्रक्रियां सम्पन्नं कारितवान्।

​एकवारं पुनः अध्यक्षः निर्वाचितः अभवत् इति पश्चात् निदेशक-मण्डलस्य सर्वैः सदस्यैः अरविन्द-मार्डीकरस्य अभिनन्दनं कृतम्। वरिष्ठ-पत्रकारः रामबहादुर-रायः तस्य पूर्व-कार्यकालेन सह अधुना यावत् तस्य यात्रायाः उल्लेखनीय-उपलब्धीः रेखाङ्कितं कुर्वन् उक्तवान् यत् सः प्रत्येकं आह्वानस्य सम्मुखीकरणं कुर्वन् हिन्दुस्थान-समाचार-संस्थां सर्वोपरि स्थापितवान्। रवीन्द्र-सिंघवी उक्तवान् यत् अखण्ड-ऊर्जया पूर्णस्य अस्माकं अध्यक्षस्य हस्ते हिन्दुस्थान-समाचार-संस्थायाः भविष्यं सुरक्षितं वर्तते एषा च निरन्तरं प्रगति-पथे वर्धते। निदेशक-मण्डलस्य सदस्यैः अरविन्द-मार्डीकरस्य कार्यकालस्य अन्तरे हिन्दुस्थान-समाचार-संस्थायाः आर्थिक-रूपेण सबलीकरणाय, विभिन्न-कार्यक्रमाणां माध्यमेन संस्थानस्य विस्तारेण सह एव विश्वसनीयतां प्रतिष्ठां च वर्धयितुं तस्य भूरि-भूरि प्रशंसा कृता। धन्यवाद-ज्ञापने अरविन्द-मार्डीकरः अस्य सर्वस्य श्रेयः संस्थायां कार्यरतानां स्वकीयानां सर्वेषां सहयोगिनां परिश्रमाय संस्थानं प्रति निष्ठायै च दत्तवान्।

​उल्लेखनीयं वर्तते यत् २०१६ तमे वर्षे यदा हिन्दुस्थान-समाचार-संस्था सुप्रसिद्ध-उद्योगपतये एवं एस.आई.एस. इत्यस्य संस्थापकाय आर.के.सिन्हा-महोदयेन संचालयितुं दत्ता आसीत् तदा अरविन्द-मार्डीकरः निदेशक-मण्डलस्य सदस्य-रूपेण सम्मिलितः अभवत्। मई, २०१८ तमे वर्षे जातायां वार्षिक-सामान्य-सभायां सः उपाध्यक्षः निर्वाचितः जातः। २०२० तमे वर्षे कोविड-महामारी-काले अत्यन्तं चुनौतीपूर्ण-स्थितौ कार्यकारी-अध्यक्षस्य दायित्वं दत्तम्। ततः पश्चात् अप्रैल, २०२२ तमे वर्षे आर.के.सिन्हा-महोदयस्य त्यागपत्रानन्तरं तस्मै अवशिष्ट-एक-वर्षस्य कार्यकालाय अध्यक्षः मनोनीतकृतः। मई, २०२३ तमे वर्षे सः प्रथमवारम् अध्यक्षपदाय निर्विरोधं निर्वाचितः आसीत्।

---------------

हिन्दुस्थान समाचार