Enter your Email Address to subscribe to our newsletters

इतिहासस्य पृष्ठेषु ०८ मई-दिनम् विश्वस्तरे निर्णायक-परिवर्तनरूपेण अभिलिखितम् अस्ति। एषा एव तिथिः यदा यूरोपे द्वितीय-विश्वयुद्धस्य अन्तः अभवत् तथा दीर्घकालात् प्रवर्तमानायाः विनाश-हिंसा-अस्थिरतायाः विरामः अभवत्।
जर्मनी-देशस्य तानाशाहः एडोल्फ-हिटलर आत्महत्यायाः प्रायः एकसप्ताहानन्तरं, ०८ मई १९४५ तमे वर्षे जर्मन-सेनायाः जनरलः आल्फ्रेड-योडलः मित्र-राष्ट्राणां समक्षं निश्शर्त-आत्मसमर्पणस्य कर्गदेषु हस्ताक्षरम् अकरोत्। एतया ऐतिहासिक-घटनया सह यूरोपे युद्धस्य औपचारिकः अन्तः अभवत्। अयं दिवसः अनेकेषु देशेषु “विक्ट्री-इन-यूरोप-डे” इति रूपेण आचर्यते।
किन्तु समयान्तरस्य कारणात् सोवियत-संघे (अधुना रूसदेशे) तस्मिन् समये अर्धरात्रेः अनन्तरकालः अभवत्। एतस्मात् कारणात् रूसदेशे अन्येषु कतिपय-देशेषु च अस्य विजयस्य उत्सवः ०९ मई-दिने आचर्यते, यः “विक्ट्री-डे” इति कथ्यते।
यूरोपे युद्धस्य समाप्तेः अनन्तरमपि विश्वयुद्धस्य पूर्णतः अन्तः तस्मिन् समये नाभवत्। एशिया-प्रदेशे जापान-देशस्य विरुद्धं युद्धं प्रवर्तमानम् आसीत्। अन्ततः १९४५ तमे वर्षे सितम्बर-मासे जापान-देशेन आत्मसमर्पणं कृतम्, ततः द्वितीय-विश्वयुद्धस्य पूर्णं समापनम् अभवत्।
द्वितीय-विश्वयुद्धम् मानव-इतिहासस्य सर्वाधिक-विनाशकारी-संघर्षेषु अन्यतमम् आसीत्, यस्मिन् कोटिशः जनानां मृत्युः अभवत् तथा अनेक-देशानाम् अर्थव्यवस्था सामाजिक-संरचना च पूर्णतया प्रभाविते अभवताम्। ०८ मई-दिनं न केवलं युद्ध-समाप्तेः प्रतीकः अस्ति, अपितु शान्तेः, सहकार्यस्य वैश्विक-एकतायाश्च आवश्यकतायाः स्मरणम् अपि कारयति।
महत्त्वपूर्ण-घटनाचक्रम्
• १८८६ — अमेरिकीय-औषधनिर्माता जान्-एस्-पैम्बरटन कोका-कोला इत्यस्य विकासं कृतवान्, तदा च तत् टॉनिकरूपेण वर्णितम्। • १९३३ — महात्मा-गान्धी ब्रिटिश-शासनस्य नीतिनां विरोधे एकविंशति-दिवसानां उपवासम् आरब्धवान्। • १९४५ — मित्र-राष्ट्राणां सेनानां समक्षं जर्मनी-देशस्य आत्मसमर्पणम् अभवत्। • १९५९ — प्रधानमन्त्री जवाहरलाल-नेहरू चीन-देशं भारतस्य विरुद्धं युद्धधमकीपूर्ण-भाषणानि परित्यक्तुम् उक्तवान्। • १९७० — ब्रिटिश-रॉक-संगीत-दलस्य द-बीटल्स सदस्याः औपचारिक-विभाजनस्य एकमासानन्तरं स्वीयम् अन्तिमं स्टूडियो-अल्बम् लेट-इट-बी प्रकाशितवन्तः। • १९८० — विश्व-स्वास्थ्य-संगठनं चेचक-रोगस्य उन्मूलनस्य घोषणाम् अकरोत्। • १९९९ — दक्षिण-बाङ्ग्लादेशे मेघना-नद्यां जनैः पूर्णा नौका विपर्यस्ता अभवत्, यस्मिन् त्रिशताधिक-जनानां मृत्युः अभवत्। • १९९९ — बेलग्राद-स्थिते चीनीय-दूतावासे नाटो-संघेन प्रक्षेपास्त्र-आक्रमणं कृतम्। • २००० — भारतीय-मूलस्य ६९ वर्षीयः लॉर्ड्-स्वराजपालः ब्रिटेन-देशस्य चतुर्थ-बृहत्तम-विश्वविद्यालयस्य कुलपतित्वे नियुक्तः। • २००१ — अमेरिका अन्ताराष्ट्रिय-मादक-द्रव्य-नियन्त्रण-मण्डलात् अपि बहिः गतः। • २००२ — पाकिस्तान-देशस्य भ्रमणं निरस्य न्यूजीलैण्ड्-देशस्य दलं स्वदेशं प्रत्यागतवान्। • २००४ — मुरलीधरन ५२१ विकेट्-प्राप्य सर्वाधिक-टेस्ट-विकेट्-प्राप्तेः अभिलेखं निर्मितवान्। • २००६ — संयुक्त-राज्य-अमेरिका पाकिस्तान-देशाय अत्याधुनिक-पारम्परिक-शस्त्र-प्रणालीं दातुं सम्मतः अभवत्। • २००९ — पाकिस्तान-सेना स्वात-घाट्यां तालिबान-विरुद्धं स्वीयम् अभियानं तीव्रीकृतवती। तालिबानस्य अत्याचारैः पीडिताः प्रायः द्विलक्ष-जनाः घाटीतः पलायितवन्तः। • २०१० — छत्तीसगढ-राज्ये नक्सलवादिनः दन्तेवाडा-जनपदे बीजापुर-भोपालपट्टनम्-राष्ट्रीय-राजमार्गे-१६ सीआरपीएफ-दलस्य बख्तरबन्द-वाहनं बारूदी-सुरङ्ग-विस्फोटेन ध्वंसितवन्तः। अस्मिन् आक्रमणे अष्ट सैनिकाः वीरगतिं प्राप्तवन्तः, द्वौ नागरिकौ च आहतौ अभवताम्।
जन्म
• १८२८ — जीन-हेनरी-ड्यूनेन्ट — मानव-सेवाकार्याणां कृते प्रथम-नोबेल-शान्ति-पुरस्कारस्य प्राप्ता। • १८९५ — गोपबन्धु-चौधरी। • १९१६ — स्वामी-चिन्मयानन्दः — भारतस्य प्रसिद्धः आध्यात्मिक-चिन्तकः वेदान्त-दर्शनस्य विश्वविख्यातः विद्वान् च। • १९२६ — तपन-राय-चौधरी — प्रसिद्धः इतिहासकारः। • १९२९ — गिरिजा-देवी — भारतस्य प्रसिद्धा ठुमरी-गायिका। • १९३२ — सत्यव्रत-मुखर्जी — पद्म-भूषण-सम्मानेन सम्मानितः भारतीय-राजनीतिज्ञः लोकसेवी च।
निधनम्
• १७७७ — मीर-कासिमः — बङ्गालस्य नवाब-इति। • १८९९ — वासुदेव-चापेकरः — भारतीय-इतिहासे प्रसिद्धेषु चापेकर-बन्धुषु अन्यतमः। • १९१५ — अमीर-चन्दः — भारतस्य स्वातन्त्र्य-सेनानी। • १९१५ — भाई-बलमुकुन्दः — भारतस्य स्वातन्त्र्य-संग्रामे संघर्षशीलेषु क्रान्तिकारिषु अन्यतमः। • १९२७ — दामोदरम्-संजीवय्या — भारतीय-राष्ट्रीय-काङ्ग्रेस-पक्षस्य नेता। • १९८२ — आत्माराम-रावजी-देशपाण्डे — प्रसिद्धः मराठी-साहित्यकारः। • १९९३ — देवीप्रसाद-चट्टोपाध्यायः — भारतस्य प्रसिद्धः इतिहासकारः। • २०१३ — ज़िया-फ़रीदुद्दीन-डागरः — भारतस्य प्रसिद्धः ध्रुपद-गायकः।
महत्त्वपूर्ण-अवसराः
• विश्व-रेडक्रॉस-दिवसः। • विश्व-थैलेसीमिया-दिवसः।
हिन्दुस्थान समाचार / Dheeraj Maithani