Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, ०६ मईमासः (हि.स.)। उत्तरप्रदेशस्य हमीरपुर-जनपदस्य कुरारा-क्षेत्रे नौका-विपर्यय-घटनायां लुप्त-जनानां यथाशीघ्रं अन्वेषणं क्रियताम् तथा उद्धार- कार्याणि युद्ध-स्तरे संचालितानि भवेयुः। अस्मिन् विषये कस्यापि प्रकारस्य प्रमादः न सह्यः भविष्यति तथा वरिष्ठ-अधिकारिणः स्वयं घटनास्थलं गत्वा कार्याणां निरीक्षणं कुर्वन्तु। एतानि निर्देशानि बुधवासरे योगी-आदित्यनाथः प्रदत्तवान्।
हमीरपुरस्य कुरारा-क्षेत्रे जातस्य नौका-दुर्घटनायाः मुख्यमन्त्री तत्कालं संज्ञानं स्वीकृतवान्। घटनायाः सूचना प्राप्तमात्रेण सः आरक्षक-प्रशासनयोः वरिष्ठ-अधिकारिभ्यः घटनास्थलं गन्तुं निर्देशान् अददात्। तेन उक्तं यत् राहत-उद्धार-कार्येषु शीघ्रताम् आनयतु तथा सर्वाः संस्थाः समन्वयं स्थापयित्वा कार्यं कुर्वन्तु।
मुख्यमन्त्री निर्देशं दत्तवान् यत् पीडितेभ्यः सर्वथा सम्भवा सहायता प्रदीयताम् तथा आहतानां समुचित-चिकित्सा सुनिश्चितीक्रियताम्। तेन सह लुप्त-जनानाम् अन्वेषणार्थं विशेष-अभियानस्य सञ्चालनम् अपि निर्दिष्टम्।
तेन जनपद-प्रशासनाय दुर्घटनायाः कारणानां गम्भीर-निरीक्षणं कर्तुं तथा भविष्ये एतादृश-दुर्घटनानां पुनरावृत्तिं निवारयितुं प्रभावी-पदानि स्वीकर्तुं निर्देशाः दत्ताः। प्रशासनाय स्थितेः उपरि निरन्तरं दृष्टिं स्थापयितुम् अपि उक्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता