Enter your Email Address to subscribe to our newsletters

लखनऊ-नगरम्, ०९ मईमासः (हि.स.)। उत्तर-प्रदेशे मातृ-शिशु-स्वास्थ्यस्य विषये मुख्यमन्त्रिणः योगी-आदित्यनाथस्य प्रयत्न: ग्रामे ग्रामे परिवर्तनस्य नूतनं चित्रं प्रस्तुतवती। प्रदेशस्य एक-लक्ष-नवतिसहस्राणि आङ्गनवाडी-केन्द्राणि अधुना केवलं पोषाहार-वितरण-केन्द्राणि न सन्ति, अपितु गर्भवती-स्त्रीणां स्वास्थ्यस्य, पोषणस्य सुरक्षित-मातृत्वस्य च सुदृढाः आधाराः अभवन्। एतदेव कारणम् अस्ति यत् प्रदेशे द्वे-कोट्यौ द्वादश-लक्षाधिकाः बालकाः, गर्भवत्यः धात्री-मातरश्च अनुपूरक-पुष्टाहार-योजनाभ्यः लाभान्विताः अभवन् तथा च गर्भवती-स्त्रीषु रक्ताल्पतायाः दरः पञ्च-प्रतिशताधिकेन न्यूनः अभिलेखितः। संस्थागत-प्रसवस्य प्रतिशतं चतुशीत्यधिकं प्राप्तम् इति मातृ-सुरक्षा-अभियानस्य महती उपलब्धिः मन्यते।
आङ्गनवाडी-केन्द्रेषु प्रौद्योगिक्या वर्धिता पारदर्शिता
राज्य-सर्वकारस्य प्रवक्त्रा उक्तं यत् आङ्गनवाडी-केन्द्राणि आधुनिक-प्रौद्योगिक्या संयोज्य अनुपूरक-पुष्टाहार-वितरणे बायोमीट्रिक-प्रणाली प्रवर्तिता। अनेन पोषाहार-वितरण-प्रक्रिया अधिका पारदर्शिनी प्रभाविनी च अभवत्। कुपोषणस्य अथवा पोषण-स्थितेः सम्यक्-परिचयाय सर्वेषु आङ्गनवाडी-केन्द्रेषु चतुर्विधानि ग्रोथ-मॉनीटरिंग-यन्त्राणि चलदूरवाण्यश्च उपलब्धाः कृताः। पोषण-ट्रैकर-माध्यमेन गर्भवती-स्त्रीणां बालकानां च स्वास्थ्यस्य निरन्तरं निरीक्षणं क्रियते। पोषण-ट्रैकर-इत्यस्य प्रभावी-क्रियान्वयनाय एक-लक्षाधिकाः आङ्गनवाडी-कार्यकर्त्र्यः एएनएम-कर्मचारिण्यश्च प्रशिक्षिताः। कार्यकुशलता-मापने ९८-प्रतिशत-उपलब्धिः अस्य अभियानस्य महती सफलता मन्यते। प्रदेशे त्रयोविंशतिसहस्राधिकाः सक्षम-आङ्गनवाडी-केन्द्राणि आधुनिक-सुविधाभिः सह सञ्चालितानि सन्ति, यदा च २६६ नूतन-आङ्गनवाडी-केन्द्राणाम् अनुमोदनम् अपि प्रदत्तम्।
मातृ-शिशु-मृत्यु-दरे न्यूनता
प्रदेशे प्रधानमन्त्री-मातृ-वन्दना-योजनायाः अन्तर्गतं षष्टि-लक्षाधिकाः मातरः लाभान्विताः अभवन्। जननी-सुरक्षा-योजनायाः अन्तर्गतं ग्रामीण-क्षेत्रेषु प्रसवं कुर्वतीभ्यः महिलाभ्यः १४०० रूप्यकाणि तथा नगरीय-क्षेत्रेषु १००० रूप्यकाणां सहायता-राशिः प्रदीयते। अस्य सकारात्मकाः परिणामाः मातृ-नवजात-मृत्यु-दरे उल्लेखनीय-न्यूनतारूपेण प्रकटिताः। प्रदेशे जनप्रतिनिधिभिः अधिकारिभिश्च षट्-सहस्र-पञ्चशताधिकानि आङ्गनवाडी-केन्द्राणि दत्तक-गृहीतानि। अनेन एतेषां केन्द्राणां निरीक्षणं संसाधनानि व्यवस्थाश्च अधिकं सुदृढाः अभवन्। स्वस्था माता एव स्वस्थ-समाजस्य समृद्ध-भविष्यस्य च आधारशिला अस्ति। मातृ-दिवसस्य अवसरे प्रदेशस्य आङ्गनवाडी-व्यवस्था एतस्मिन् सङ्कल्पे नूतनां दृढतां प्रदर्शयति।
कुपोषणस्य विरुद्धं “सम्भव-अभियानम्” प्रभावी अस्त्रम् अभवत्
मातृभिः सह बालकेषु अपि कुपोषणस्य विरुद्धं सञ्चाल्यमाने “सम्भव-अभियाने” उल्लेखनीया प्रगतिः अभिलेखिता। प्रदेशव्यापि १.७ कोटि-बालकानां स्क्रीनिंग् कृता तथा च २.५ लक्ष-गम्भीर-कुपोषित-बालकानां पञ्जीकरणं कृत्वा तान् विशेष-पोषण-सेवाभिः संयोजितम्। आङ्गनवाडी-केन्द्रेषु आगच्छद्भ्यः ०३ तः ०६ वर्ष-आयुवर्गीयेषु ३५ लक्षाधिकेषु बालकेषु प्रतिदिनं उष्ण-पक्व-भोजनम् उपलब्धं क्रियते। एतदर्थं षष्टि-सहस्र-महिला-स्वयं-सहायता-समूहानां माध्यमेन पुष्टाहार-वितरणं कृत्वा महिलाः रोजगार-आत्मनिर्भरताभ्यां सह अपि संयोजिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता