Enter your Email Address to subscribe to our newsletters


देवरिया-जनपदः, ०९ मईमासः (हि.स.)। उत्तर-प्रदेशस्य देवरिया-जनपदे कृषि-मन्त्री सूर्य-प्रताप-शाही शनिवासरे कृषि-भवनस्य जीर्णोद्धारानन्तरं फीता-कर्तनेन शिलालेखस्य अनावरणेन च भवनस्य लोकार्पणं कृतवान्। ततः परं तेन भवनस्य विभिन्न-कक्षाणां निरीक्षणं कृत्वा सम्बन्धित-अधिकारिभ्यः आवश्यक-निर्देशाः प्रदत्ताः।
कृषि-मन्त्रिणा उक्तं यत् कृषि-भवनं अत्यन्तं प्राचीनं जीर्णं च अभवत्। विभागीय-कार्याणां सञ्चालनाय असुविधा जायमाना आसीत्। एतदेव दृष्ट्वा भवनस्य जीर्णोद्धारः कारितः। तेन उक्तं यत् अधुना भवनं पूर्णतया सुव्यवस्थितं कार्यानुकूलं च जातम् अस्ति। विभागीय-कार्य-सञ्चालने सुविधा भविष्यति। तेन कृषि-विभागेन सञ्चालित-योजनानां कृषकेभ्यः प्रभावी-रीत्या प्रसारणे बलं दत्तम्। तेन उक्तं यत् सर्वकारस्य सर्वाः योजनाः पूर्ण-पारदर्शितया निष्पक्षतया च क्रियान्विताः भवेयुः। सहैव कृषि-क्षेत्रे आधुनिक-नवाचार-प्रौद्योगिकीनां कृषकेभ्यः प्रसारणेन ते अधिकाधिकं लाभान्विताः क्रियन्ताम्।
कृषि-मन्त्री शाही उक्तवान् यत् जनपदे निर्माणाधीनाः कृषि-परियोजनाः शीघ्रं पूर्णाः क्रियन्ताम्, येन कृषकेभ्यः समये सुविधाः उपलब्धाः भवेयुः। तेन बैतालपुर-स्थे निर्मिते कृषि-प्रशिक्षण-केन्द्रे कृषि-विभागस्य सह अन्य-विभागानामपि प्रशिक्षण-कार्यक्रमाः आयोजनीयाः इति निर्देशः प्रदत्तः। अस्मिन् अवसरे कृषि-भवनं प्राप्ते कृषि-मन्त्रिणि जनपदाधिकारी मधुसूदन-हुल्गी पुष्पगुच्छं समर्प्य तस्य स्वागतं कृतवान्। कार्यक्रमस्य अवसरे कृषि-मन्त्री सूर्य-प्रताप-शाही, जनपदाधिकारी मधुसूदन-हुल्गी, मुख्य-विकास-अधिकारी राजेश-कुमार-सिंह च कृषि-परिसरे वृक्षारोपणम् अपि कृतवन्तः।
लोकार्पण-कार्यक्रमे भाजपा-जनपदाध्यक्षः भूपेन्द्र-सिंहः, श्रीनिवास-मणिः, उपनिदेशकः कृषि सुभाष-मौर्यः, भूमि-संरक्षण-अधिकारी सन्तोष-कुमार-मौर्यः, जनपद-कृषि-अधिकारी उदय-शङ्कर-सिंहः इत्यादयः कृषि-विभागस्य अधिकारिणः भाजपा-कार्यकर्तारः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता