Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 मईमासः (हि.स.)। केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्यसिन्धिया तथा महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्रफडणवीस शनिवासरे मुम्बईनगरस्य अन्धेरी-रेलस्थानके स्थितस्य नवीनीकृतस्य उपपत्रालयस्य उद्घाटनं कृतवन्तौ। ‘जनसेवा-कनेक्ट्’ योजनायाः अन्तर्गतं विकसितम् एतत् डाकघरम् अधुना भविष्यन्मुख-सेवाकेन्द्ररूपेण कार्यं करिष्यति, यत्र आधुनिकप्रौद्योगिक्याः नागरिककेन्द्रितसुविधानां च समावेशः कृतः अस्ति।
केन्द्रीयसञ्चारमन्त्रालयस्य अनुसारम्, १९३२-३३ तमे वर्षे स्थापितस्य अन्धेरी-आरएस-डाकघरस्य आधुनिकीकरणकार्यं योजना-वास्तुकलाविद्यालयस्य सहयोगेन सम्पन्नम्। अस्याः परियोजनायाः उद्देश्यं पारम्परिक-डाकघराणि आधुनिक-सेवाकेन्द्रेषु परिवर्तयितुम् अस्ति, येन नागरिकेभ्यः शीघ्राः, पारदर्शिन्यः, सुविधाजनकाः च सेवाः प्रदातुं शक्येरन्।
एतत् पत्रालयगृहं देशस्य सप्तदशराज्येषु चत्वारिंशत् डाकघरेषु प्रवर्तमानस्य ‘प्रायोगिक-आदर्श’ कार्यक्रमस्य अन्तर्गतं चयनितम् अस्ति। महाराष्ट्रस्य एतत् प्रथमं तथा देशस्य द्वितीयःपत्रालयः अस्ति, यत् अस्याः विशेषपरियोजनायाः अन्तर्गतं विकसितं उद्घाटितं च अभवत्। विभागीयाधिकारिणां अनुसारम्, अयं आदर्शः भविष्ये देशस्य अन्येषु प्रमुखडाकघरेष्वपि प्रयोक्तुं शक्यते।
उद्घाटनसमारोहस्य समये केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धिया उक्तवान् यत् एषा पहल प्रधानमन्त्री नरेन्द्रमोदिनेतृत्वे आधुनिक-नागरिककेन्द्रित-भविष्योपयुक्त-डाकसेवानिर्माणस्य दिशि महत्त्वपूर्णं पदम् अस्ति। तेन उक्तं यत् पत्रालयसेवाः प्रौद्योगिक्या, दक्षतया, पारदर्शितया च नूतनयुगानुरूपेण सुदृढाः क्रियमाणाः सन्ति। सिन्धिया अपि अवदत् यत् इण्डिया-पोस्ट् अधुना केवलं पत्रवितरणपर्यन्तं सीमितं नास्ति, अपितु डिजिटल-वित्तीयसेवानां महत्त्वपूर्णमाध्यमरूपेण अपि उद्भवति।
अस्मिन् अवसरे मुख्यमन्त्री देवेन्द्रफडणवीस उक्तवान् यत् इण्डिया-पोस्ट् देशस्य अन्तिमसीमापर्यन्तं सेवाः प्रापयितुं जनान् संयोजयितुं च महत्त्वपूर्णां भूमिकां निर्वहति। तेन एषा पहल महाराष्ट्रे पत्रालयसेवानाम् आधुनिकीकरणस्य दिशि महत् सकारात्मकं च पदम् इति वर्णिता।
नवीनीकरणानन्तरम् अन्धेरी-उपडाकघरे अत्याधुनिक-आधारभूतसंरचना, डिजिटल-सेवासुविधाः, आधुनिक-ग्राहकसहायताप्रणाली तथा शीघ्र-सेवावितरणव्यवस्था विकसिताः सन्ति। सहैव डाकघराय नूतना पहचान तथा आधुनिकस्वरूपं प्रदत्तम्, येन यात्रिकाणां स्थानीयनागरिकाणां च उत्तमः अनुभवः भवेत्। समारोहस्य समये विशेषावरणम् अपि विमोचितम्, यत् अस्याः परियोजनायाः स्मृत्या महत्त्वेन च सम्बद्धं मन्यते।
कार्यक्रमे महाराष्ट्र-गोवा-सर्कलस्य मुख्यडाकमहानिरीक्षकः अमिताभसिंह सहिताः अनेकाः वरिष्ठाधिकारिणः उपस्थिताः आसन्। उद्घाटनसमारोहे स्थानीयविधायकाः हारूनखान, रूपेशसावर्कर तथा आचार्यपवनत्रिपाठी चापि सहभागिनः अभवन्।-------------
हिन्दुस्थान समाचार