Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 09 मईमासः, (हि.स.)।
असमविधानसभायां प्रचण्डविजयानन्तरं मङ्गलवासरे प्रदेशस्य निवर्तमानमुख्यमन्त्रिणः शपथग्रहणसमारोहे प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाह, विंशतिराज्यानां मुख्यमन्त्रिणः, भारतीयजनतापार्टी तथा एनडीए-दलस्य राष्ट्रियनेतारः, तथा च बहुसंख्यकाः प्रमुखोद्योगपतयः उपस्थिताः भविष्यन्ति।
निवर्तमानमुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा शनिवासरे पश्चिमबङ्गयात्रायाः पूर्वं पत्रकारैः सह वार्तालापे उक्तवान् यत् एतेषां प्रमुखनेतॄणां सह अस्मिन् समारोहे असमे भारतीयजनतापार्टी तथा एनडीए-दलस्य बूथाध्यक्षाः तथा पञ्चायतनिर्वाचिताध्यक्षाः अपि आमन्त्रिताः सन्ति। तेन उक्तं यत् अद्य पश्चिमबङ्गे मुख्यमन्त्रिणः शपथग्रहणसमारोहस्य कारणेन असमराज्याय नियुक्तयोः पर्यवेक्षकयोः केन्द्रीयमन्त्री जेपी नड्डा तथा नायबसिंहसैनी इत्येतयोः अद्य भाजपाविधायकदलस्य सभायां सहभागितायाः कार्यक्रमः पुनर्निर्धारितः। अस्य कारणात् एषा सभा श्वःपर्यन्तं स्थगिता अभवत्।
तेन उक्तं यत् भाजपाविधायकदलस्य सभायाः समये परिवर्तनं कृत्वा सा पुनर्निर्धारिता अस्ति। अधुना भाजपाविधायकदलस्य सभा १० मे दिनाङ्के प्रातः ०९ वादनात् आरभ्य आयोजिता भविष्यति। ततः परं राष्ट्रियजनतान्त्रिकगठबन्धनस्य (एनडीए) सभा अपि आयोजिता भविष्यति।
पार्टीसूत्राणां अनुसारम्, अस्यां सभायां औपचारिकरूपेण विधायकदलस्य नेतुः चयनं क्रियिष्यते। उल्लेखनीयम् अस्ति यत् प्रदेशभाजपाध्यक्षः दिलीपसैकिया माध्यमप्रतिनिधिभ्यः अवदत् यत् डॉ. हिमन्तबिस्वसरमा द्वितीयवारं असमराज्यस्य मुख्यमन्त्रिरूपेण मङ्गलवासरे शपथं ग्रहीष्यति।
डॉ. शर्मा उक्तवान् यत् मङ्गलवासरे मध्यान्हे १२ वादने नूतनमुख्यमन्त्री खानापाडा-वेटरिनरी-कॉलेज-ग्राउण्ड् इत्यत्र आयोजिते भव्यसमारोहे पदगोपनीयतायाः शपथं ग्रहीष्यति। कार्यक्रमस्थले भव्यपण्डालानां निर्माणकार्यं प्रचलति।
-----------
हिन्दुस्थान समाचार / Dheeraj Maithani