शुभेंन्दोः गृह-जनपदे मेदिनीपुरे भाजपा-कार्यकर्तृणां शोभायात्रा उत्सवश्च
मेदिनीपुरम्, 09 मईमासः (हि.स.)।राज्यस्य नूतन-मुख्यमन्त्रि-रूपेण सुवेंदु-अधिकारिणः नाम्नः घोषणायाः पश्चात् पूर्व-मेदिनीपुर-जनपदस्य कान्थी, नन्दिग्राम एवं बेलदा क्षेत्रेषु भारतीय-जनता-दल-कार्यकर्तृणां समर्थकानां च मध्ये शुक्रवासरे रात्रौ विलम्ब-पर्यन
मेदिनीपुर में देर रात भाजपा कार्यकर्ता


मेदिनीपुरम्, 09 मईमासः (हि.स.)।राज्यस्य नूतन-मुख्यमन्त्रि-रूपेण सुवेंदु-अधिकारिणः नाम्नः घोषणायाः पश्चात् पूर्व-मेदिनीपुर-जनपदस्य कान्थी, नन्दिग्राम एवं बेलदा क्षेत्रेषु भारतीय-जनता-दल-कार्यकर्तृणां समर्थकानां च मध्ये शुक्रवासरे रात्रौ विलम्ब-पर्यन्तं अतीव-उत्साहः दृष्टः। स्थाने-स्थाने शोभायात्रां निर्गमय्य मिष्टान्नं च वितीर्य विजयस्य उत्सवः आचरितः।

​कान्थी-नन्दिग्रामयोः महत्यां संख्यायां भाजपा-कार्यकर्तारः सुवेंदु-अधिकारिणः गृहस्य पुरतः एकत्रिताः अभवन्। अस्मिन् अन्तराले अबीर-क्रीडा कृता, स्फोटकाः स्फोटिताः तथा च समर्थकाः “जय श्रीराम” इति घोषं कुर्वन्तः हर्षं प्रकटितवन्तः। अनेकेषु स्थानेषु कार्यकर्तारः शोभायात्रां निर्गमय्य भाजपायाः विजयस्य उत्सवं मन्यन्ते स्म।

​एवमेव पश्चिम-मेदिनीपुरस्य बेलदा-क्षेत्रे अपि नारायणगढस्य भाजपा-कार्यकर्तारः जुलूसं निर्गमयन्। कार्यकर्तारः सुवेंदु-अधिकारिणः चित्रं हस्ते गृहीत्वा सम्पूर्णे नगरे भ्रमितवन्तः जनान् च वर्धापितवन्तः। अस्मिन् कार्यक्रमे नारायणगढ-क्षेत्रस्य भाजपा-नेतारः गौरी-शंकर-अधिकारी, रामलाल-जाना सहितं बहवः कार्यकर्तारः उपस्थिताः आसन्।

​भाजपा-विधायकः रमा-प्रसाद-गिरिः उक्तवान् यत् एषः विजयः पश्चिम-बङ्गाले राजनीतिक-परिवर्तनस्य नूतन-प्रारम्भस्य सङ्केतः अस्ति। शोभायात्राम् उत्सवं च दृष्ट्वा अनेकेषु स्थानेषु शान्ति-व्यवस्थां स्थापयितुम् आरक्षक-बलानि अपि नियुक्तानि आसन्।

---------------

हिन्दुस्थान समाचार