Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, ०९ मे-मासः (हि.स.)। भारतीय-जनता-पक्षस्य विधायक-दलस्य सभायाः समये परिवर्तनं कृतम्। पूर्वं एषा सभा ०९ मे-मासे आयोजनीया आसीत्, किन्तु अधुना पुनर्निर्धारिता जाता।
अधुना भाजपा-विधायक-दलस्य सभा १० मे-मासे प्रातः ०९ वादने आयोजिता भविष्यति। तदनन्तरं राष्ट्रीय-जनतान्त्रिक-गठबन्धनस्य (राजग) सभापि आयोजिता भविष्यति।
पक्षस्य सूत्राणाम् अनुसारेण सभायाम् औपचारिकरूपेण विधायक-दलस्य नेतुः चयनं क्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता