ब्रिगेड्-प्राङ्गणे अद्य नूतन-भाजपा-सर्वकारस्य शपथ-ग्रहण-समारोहः, सम्पूर्णदेशस्य दिग्गज-नेतारः सहभागित्वं करिष्यन्ति
कोलकातानगरम्, ०९ मईमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचने प्रचण्ड-बहुमतं प्राप्य शनिवासरे नूतन-भाजपा-सर्वकारस्य शपथ-ग्रहण-समारोहः आयोज्यते। कोलकाता-नगरस्य ऐतिहासिके ब्रिगेड्-प्राङ्गणे अयं भव्यः समारोहः शनिवासरे प्रातः १० वादने आरभ्यते। अस्म
ब्रिगेड मैदान


कोलकातानगरम्, ०९ मईमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचने प्रचण्ड-बहुमतं प्राप्य शनिवासरे नूतन-भाजपा-सर्वकारस्य शपथ-ग्रहण-समारोहः आयोज्यते। कोलकाता-नगरस्य ऐतिहासिके ब्रिगेड्-प्राङ्गणे अयं भव्यः समारोहः शनिवासरे प्रातः १० वादने आरभ्यते। अस्मिन् एव समारोहे पश्चिम-बङ्गालस्य प्रथम-भाजपा-सर्वकारस्य मुख्यमन्त्री शपथं गृह्णीयात्। सहैव द्वौ उपमुख्यमन्त्रिणौ मन्त्रिपरिषदः सदस्याश्च शपथं गृह्णीयुः।

विशेष-विषयः अयं यत् एषः शपथ-ग्रहण-समारोहः बाङ्ग्ला-पञ्चाङ्गानुसारं वैशाख-मासस्य पञ्चविंशे दिने आयोज्यते। अस्मिन् एव दिने सम्पूर्ण-राज्ये कविगुरोः रवीन्द्रनाथ-ठाकुरस्य जयन्ती आचर्यते।

समारोहे प्रधानमन्त्री नरेन्द्र-मोदी, केन्द्रीय-गृहमन्त्री अमित-शाहः, रक्षामन्त्री राजनाथ-सिंहः, केन्द्रीय-स्वास्थ्य-मन्त्री जेपी-नड्डा, केन्द्रीय-शिक्षामन्त्री धर्मेन्द्र-प्रधान इत्येतैः सहिताः अनेके वरिष्ठ-केन्द्रीय-मन्त्रिणः तथा भाजपा-शासित-राज्यानां मुख्यमन्त्रिणः उपस्थिताः भविष्यन्ति। एतदतिरिक्तं भाजपा-अध्यक्षेन नितिन-नवीनेन सह दलस्य अनेके राष्ट्रिय-नेतारः अपि कार्यक्रमे सहभागित्वं करिष्यन्ति।

सूचनानुसारं नियमानुसारेण राज्यस्य पूर्व-मुख्यमन्त्री ममता-बैनर्जी, कोलकाता-नगरस्य महापौरः फिरहाद-हकीम इत्येतैः सह अनेके वरिष्ठ-नेतारः विभिन्न-दलानां प्रमुखाश्च निमन्त्रणं प्राप्तवन्तः।

शपथ-ग्रहणात् पूर्वं राज्य-मन्त्रिमण्डल-सम्बद्धानां सभानां क्रमः सम्पन्नः जातः तथा मन्त्रिणां विभाग-वितरण-विषये अपि चर्चा कृता। तथापि अद्यापि मन्त्रिमण्डलस्य नाम्नां आधिकारिक-घोषणा न कृता। सूत्राणाम् अनुसारं स्वपन-दासगुप्तः, अजीत-कुमार-जाना, शङ्कर-घोषः, शारदा-मुखोपाध्यायः, इन्द्रनील-खान, अग्निमित्रा-पालः, दिलीप-घोषः, दीपाञ्जन-चक्रवर्ती, दीपक-बर्मन्, बङ्किम-घोषः, सजल-घोषः, रुद्रनील-घोषः, सुब्रत-ठाकुरः, रविन्द्रनाथ-बसुः, जगन्नाथ-चट्टोपाध्यायः, जुएल-मुर्मू, नमन-रायः, अर्जुन-सिंहः, देवाशीष-धरः तथा राजेश-कुमारः इत्येते मन्त्रिमण्डले सम्मिलिताः भवितुं शक्नुवन्ति। तापस-रायः विधानसभाध्यक्षः भविष्यतीति सम्भावना अपि व्यक्ता।

समारोहे देशस्य अनेके उद्योगपतयः, विभिन्न-देशानां राजदूताः काउन्सिल-जनरल-प्रतिनिधयः, समाजस्य विशिष्ट-जनाः सांस्कृतिक-जगतः प्रमुख-व्यक्तयश्च सहभागित्वं करिष्यन्ति। बाङ्ग्ला-चलच्चित्र-जगतः निर्देशकाः, निर्मातारः, अभिनेता-अभिनेत्र्यः, साहित्यकाराः, लेखकाः कलाकाराश्च विशेष-निमन्त्रणं प्राप्तवन्तः।

उक्तं यत् भाजपा-दलस्य तेषाम् अपि परिवाराणां विशेषरूपेण आमन्त्रणं कृतम्, येषां परिजनाः राजनैतिक-हिंसायां मृत्युम् आपन्नाः आसन्। सूचनानुसारं २०० अधिक-परिवाराः समारोहाय आमन्त्रिताः सन्ति तथा तेषां उपवेशनाय विशेष-व्यवस्था कृता।

एतदतिरिक्तं लक्षाधिकाः भाजपा-समर्थकाः सामान्य-जनाश्च समारोहं प्रति आगमिष्यन्ति इति सम्भावना वर्तते। एतत् दृष्ट्वा ब्रिगेड्-प्राङ्गणे १०० अधिकाः विशाल-एलईडी-पटलाः स्थाप्यन्ते, येन दूरस्थाः जनाः अपि सम्पूर्णं कार्यक्रमं द्रष्टुं शक्नुयुः।

हिन्दुस्थान समाचार / अंशु गुप्ता