ब्रिगेड परेड ग्राउंड : राजनीतिकयोः उत्थान-पतनयोः साक्षी अवर्तत ऐतिहासिकं क्रीडांगणम्
अब नई सरकार के शपथ ग्रहण का गवाह
ब्रिगेड परेड ग्राउंड का दृश्य


कोलकाता, 09 मईमासः (हि.स.)।

कोलकातानगरस्य बहुचर्चिते ब्रिगेड् परेड् ग्राउण्ड् इति प्रख्याते विस्तीर्णे क्रीडांगणे पश्चिमबङ्गस्य नूतनसर्वकारस्य शपथग्रहणसमारोहः आयोजितः भवितुम् अर्हति। एषः स्वयमेव ऐतिहासिकावसरः मन्यते। महानगरस्य मध्ये स्थितम् एतत् विशालं क्रीडांगणं कोलकातानगरस्य “हृदयम्” इति नाम्नापि प्रसिद्धम् अस्ति। नगरस्य मध्यभागे विस्तीर्णम् एतत् हरितं मुक्तप्रदेशं महानगरस्य पर्यावरणसन्तुलने जनजीवने च महत्त्वपूर्णां भूमिकां निर्वहति।

स्थानीयजनाः वदन्ति यद्“यदि मुक्तवायौ श्वसितुम् इच्छसि, तर्हि ब्रिगेड् गच्छ।” प्रतिदिनं प्रातःकाले अत्र सहस्रशः जनाः प्रातर्भ्रमणाय आगच्छन्ति। तेषु यूनां बालकानां च संख्या विशेषतया अधिका भवति, ये क्रिकेट् तथा फुट्बॉल् क्रीडायाः अभ्यासाय आगच्छन्ति। अत्र फुट्बॉल् क्रीडकानां क्रीडारसिकानां च नित्यं समागमः दृश्यते।

इतिहासकाराणां मते अष्टादशशताब्द्यां पलाशी-युद्धस्य अनन्तरम् आङ्ग्लैः अस्य प्रदेशस्य विकासः आरब्धः आसीत्। कथ्यते यत् कदाचित् अत्र घनानि अरण्यानि आसन्, यानि आङ्ग्लैः छित्त्वा शुद्धीकृतानि। सेनायाः पूर्वीयकमानमुख्यालयस्य, रेस् कोर्स् इत्यस्य, विक्टोरिया मेमोरियल् इत्यस्य च मध्ये स्थितम् एतत् मैदानं प्रायः नवशत-एकड-परिमिते क्षेत्रे विस्तृतम् अस्ति। एतत् विश्वस्य महानतमेषु नागरिकोद्यानषु अपि गण्यमानम् अस्ति।

जवाहरलाल् नेहरू मार्गः, खिदिरपुरमार्गः, डफरिन् मार्गः, चिकित्सालयमार्गः च इत्येभिः परिवृतस्य अस्य मैदानस्य चतुर्दिक्षु बहवः प्राचीनाः विशालवृक्षाः सन्ति। अतः एषः प्रदेशः प्रातर्भ्रमणाय, क्रीडायै, मुक्तवातावरणे समययापनाय च जनानां प्रथमपसन्दः जातः अस्ति।

उल्लेखनीयम् यत् एतस्य विशालमैदानस्य व्यवस्थापनम् भारतीयसेनायाः हस्तेषु अस्ति। ब्रिगेड् परेड् ग्राउण्ड् पश्चिमबङ्गस्य राजनीतिक्षेत्रे महत्तमं मञ्चम् मन्यते। अत्र भारतीय-राष्ट्रिय-काङ्ग्रेस्, वाममोर्चा, अखिलभारतीय-तृणमूल्-काङ्ग्रेस्, भारतीय-जनता-पार्टी इत्यादयः सर्वे प्रमुखराजनीतिदलाः विशालसभाः आयोजयन्ति स्म। विशेषतः वाममोर्चाशासनकाले अत्र सर्वाधिकाः राजनीतिकसभाः अभवन्।

राजनीतिदलानां कृते ब्रिगेड्-मैदाने सभा-आयोजनं शक्तिप्रदर्शनस्य प्रतीकं मन्यते। अत्र सम्पन्नायाः प्रत्येकसभायाः अनन्तरं जनसमूहस्य संख्याविषये सर्वाधिकः चर्चाविषयः भवति। सामान्यतया कश्चन दलः अत्र समागतजनानां संख्यां पञ्चलक्षात् न्यूनां न वदति। अनेकेषु पर्यायेषु आयोजकैः सप्तलक्षाधिकजनानां आगमनस्य दावः अपि कृतः। कोलकातातः देहलीपर्यन्तं प्रमुखनेतॄणाम् उपस्थितिः एताः सभाः अधिकविशिष्टाः करोति। अतः एतत् मैदानं भारतीयराजनीतेः “मक्का” इति नाम्नापि प्रसिद्धम् अस्ति।

स्मरणीयम् यत् वर्षे २०११ तमे सत्तापरिवर्तनात् पूर्वं ममता बनर्जी अपि अस्मिन्नेव मैदाने विशालसभाम् आयोजितवती आसीत् तथा तत्कालीन-वाममोर्च-सर्वकारस्य विरुद्धं राजनैतिकवातावरणं निर्मितवती। ततः किञ्चित्कालानन्तरं राज्ये चतुस्त्रिंशद्वर्षीयं वामशासनं समाप्तम् अभवत् तथा अखिलभारतीय-तृणमूल्-काङ्ग्रेस् सत्तायाम् आगता। अधुना पुनः ब्रिगेड्-क्रीडांगणे नूतनराजनीतिकपरिवर्तनस्य साक्षी भवितुम् अर्हति।

क्रीडाजगति अपि ब्रिगेड्-क्रीडांगणस्य विशेषं महत्त्वम् अस्ति। मन्यते यत् भारतदेशे प्रथमवारं क्रिकेट्-क्रीडा अस्मिन्नेव क्रीडांगणे अभवत्। अत्र ईस्ट् इण्डिया कम्पनी तथा कोलकाताक्रीडकानां मध्ये द्विदिवसीयः क्रीडास्पर्धा आयोजितः आसीत्, यस्मिन् कोलकातादलम् १५२ धावनाङ्कैः पराजितम् अभवत्।

अद्य अस्यैव ब्रिगेड् परेड् ग्राउण्ड् समीपे देशस्य प्रतिष्ठिततमेषु क्रिकेट्-क्रीडाङ्गणेषु अन्यतमम् ईडन् गार्डेन्स् स्थितम् अस्ति। तदतिरिक्तम् मोहन् बागान् सुपर् जायण्ट्, ईस्ट् बङ्गाल् एफ़्-सी इत्यादयः अन्ये बहवः प्रतिष्ठिताः क्रीडासङ्घाः अपि अस्य प्रदेशस्य गौरवं वर्धयन्ति।

---------------

हिन्दुस्थान समाचार