Enter your Email Address to subscribe to our newsletters

रायपुरम् 09 मईमासः (हि.स.)। छत्तीसगढराज्यनिर्वाचनआयोगेन राज्यस्य नगरीयनिकायानां त्रिस्तरीयपञ्चायतानां च सामान्य-उपनिर्वाचनार्थं निर्वाचनकार्यक्रमः शुक्रवासरे सायंकाले प्रकाशितः। प्रकाशितकार्यक्रमस्य अनुसारम् निर्वाचनप्रक्रिया ११ मे २०२६ दिनाङ्कात् आरभ्य ०४ जून २०२६ दिनाङ्कपर्यन्तं सम्पन्ना भविष्यति।
राज्यनिर्वाचनआयोगस्य अनुसारम् नगरीयनिकायेषु अध्यक्षपदानां ०५ पदानि तथा पार्षदपदानां ७७ पदानि सहितं कुलम् ८२ पदानि, त्रिस्तरीयपञ्चायतेषु जनपदपञ्चायतसदस्यपदानां १०, सरपञ्चपदानां ८२ तथा पञ्चपदानां ११३६ पदानि सहितं कुलम् १२२८ रिक्तपदानि निर्वाचनार्थं निर्धारितानि सन्ति।
नामनिर्देशनपत्राणि ११ मे दिनाङ्कात् १८ मे २०२६ पर्यन्तं स्वीकृतानि भविष्यन्ति। नामनिर्देशनपत्राणां समीक्षा १९ मे २०२६ दिनाङ्के भविष्यति तथा अभ्यर्थिनः २१ मे २०२६ पर्यन्तं स्वनामानि प्रत्याहर्तुं शक्नुवन्ति। मतदानं ०१ जून २०२६ दिनाङ्के भविष्यति तथा परिणामघोषणा ०४ जून २०२६ दिनाङ्के क्रियिष्यते। पञ्चायतनिर्वाचने मतगणना मतदानदिने एव अर्थात् ०१ जून दिनाङ्के सम्पन्ना भविष्यति, यदा तु अन्तिमसारणीकरणं परिणामघोषणा च ०४ जून दिनाङ्के क्रियिष्येते।
राज्यनिर्वाचनआयुक्तः अजयसिंह उक्तवान् यत् निर्वाचनकार्यक्रमस्य घोषणया सह सम्बद्धेषु नगरीयनिकायेषु पञ्चायतक्षेत्रेषु च आदर्शाचारसंहिता प्रभावशीलाऽभवत्। आयोगेन स्वतन्त्र-निष्पक्ष-शान्तिपूर्ण-सुव्यवस्थितनिर्वाचनस्य कृते व्यापकप्रस्तुतयः पूर्णाः कृताः सन्ति।
निर्वाचने नगरीयनिकायेषु आहत्य४४,५२५ तथा त्रिस्तरीयपञ्चायतेषु १०,३७,७८९ मतदातारः सहभागं करिष्यन्ति। मतदानार्थं नगरीयनिकायेषु ११५ तथा पञ्चायतक्षेत्रेषु ९३७ मतदानकेन्द्राणि निर्मितानि सन्ति।
नगरीयनिकायनिर्वाचनानि दलीयाधारेण ईव्हीएम्-यन्त्रस्य माध्यमेन तथा पञ्चायतनिर्वाचनानि गैर-दलीयाधारेण मतपेटिकाभिः सम्पन्नानि भविष्यन्ति। नगरीयनिकायेषु मतदानं प्रातः ८:०० वादनात् सायं ५:०० वादनपर्यन्तं तथा पञ्चायतेषु प्रातः ७:०० वादनात् अपराह्णे ३:०० वादनपर्यन्तं भविष्यति।
आयोगस्य सचिवा शिखाराजपूततिवारी उक्तवती यत् निर्वाचनप्रक्रियायाः पारदर्शितां तथा आदर्शाचारसंहितायाः पालनं सुनिश्चितुं ०५ व्ययप्रेक्षकाः तथा ३३ सामान्यप्रेक्षकाः नियुक्ताः सन्ति। सर्वेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च निष्पक्षतया समयबद्धतया च निर्वाचनकार्यं सम्पन्नं कर्तुं निर्देशाः दत्ताः सन्ति।
---------------
हिन्दुस्थान समाचार