Enter your Email Address to subscribe to our newsletters

रायपुरम् 09 मईमासः (हि.स.)।छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेव-सायः पश्चिम-बङ्गालस्य प्रवासे अस्ति। मुख्यमन्त्री सायः अद्य शनिवासरे सुवेंदु-अधिकारिणः शपथ-ग्रहण-समारोहे सम्मिलितः भविष्यति। अस्मिन् अन्तराले उप-मुख्यमन्त्री अरुण-सावः, विजय-शर्मा च अपि तेन सह उपस्थितौ भविष्यतः। कार्यक्रमे भारतीय-जनता-पार्टी-सङ्गठनस्य बहवः अधिकारिणः अपि सम्मिलिताः भविष्यन्ति। सूचनानुसारं मुख्यमन्त्रिणः प्रवासः एकदिवसीयः भविष्यति तथा च सः सायङ्काल-पर्यन्तं रायपुरं प्रत्यागमिष्यति।
---------------
हिन्दुस्थान समाचार