Enter your Email Address to subscribe to our newsletters


- प्राथमिकानाम् उच्च प्राथमिक विद्यालयानां सहसानिरीक्षणं, गुणवत्तापूर्णे शिक्षाविषये बलम्
देवरिया, 09 मईमासः (हि.स.)। उत्तरप्रदेशस्य देवरियाजनपदे जिलाधिकारी मधुसूदनहुल्गी शनिवासरे शिक्षायाः गुणवत्तां परीक्षितुं प्राथमिकविद्यालयं दानोपुर तथा उच्चप्राथमिकविद्यालयं परासियामिश्र इत्येतयोः आकस्मिकनिरीक्षणं कृतवान्। अस्मिन् अवसरे तेन विद्यालययोः शिक्षणव्यवस्था, पठनपाठनक्रिया तथा छात्राणां शैक्षिकस्तरः परीक्षितः।
निरीक्षणसमये जिलाधिकारी बालकैः सह संवादं कृत्वा विभिन्नविषयसम्बद्धान् प्रश्नान् अपृच्छत्। तेषां अध्ययनस्थितेः अपि जानकारीं प्राप्तवान्। तेन उपस्थितशिक्षकेभ्यः गुणवत्तापूर्णशिक्षाप्रदानस्य निर्देशाः दत्ताः। जिलाधिकारी उक्तवान् यत् बालकानां अध्ययनाय विशेषध्यानं दीयताम्। तेषु लग्नता परिश्रमभावना च विकसितव्ये।
जिलाधिकारी प्रथमं प्राथमिकविद्यालयं दानोपुरं प्राप्तवान्, यत्र तेन द्वितीयकक्षायाः पञ्चमकक्षायाश्च विद्यार्थिभिः सह वार्तालापः कृतः। द्वितीयकक्षायाः बालकेभ्यः आङ्ग्लभाषा पाठिता तथा पञ्चमकक्षायाः विद्यार्थिभ्यः श्यामपट्टे गणितप्रश्नानां समाधानं कारितम्। बालकैः सम्यगुत्तरप्रदानेन तेन सन्तोषः व्यक्तः तथा शिक्षकैः प्रशंसा कृता। सहैव शिक्षाव्यवस्थां अधिकं सुदृढां कर्तुं निर्देशाः अपि दत्ताः।
ततः परं जिलाधिकारी उच्चप्राथमिकविद्यालयं परासियामिश्रं प्राप्तवान्। तत्र तेन नामाङ्कनस्थितेः जानकारी गृहीता। सप्तमकक्षायाः विद्यार्थिभ्यः गणित-आङ्ग्लविषयसम्बद्धान् प्रश्नान् अपृच्छत्। अत्रापि बालकैः सन्तोषजनकानि उत्तराणि प्रदत्तानि, येन सः प्रसन्नतां व्यक्तवान् तथा शिक्षकेभ्यः एवं प्रकारेण लग्नतया अध्यापनकार्यं निरन्तरं कर्तुं प्रेरणा प्रदत्ता।
निरीक्षणसमये प्राथमिकविद्यालये दानोपुरे एकस्मिन् भागे प्राचीराभावस्य सूचना प्राप्ता। ततः जिलाधिकारी खण्डशिक्षाधिकाऱिणा सह दूरभाषेण वार्तालापं कृत्वा आवश्यककार्यवाहीं सुनिश्चितुं निर्देशान् दत्तवान्। अस्मिन् अवसरे प्राथमिकविद्यालये दानोपुरे सहायकाध्यापकाः दिनेशसिंह, नीलममौर्य तथा शिक्षामित्रा पिंकीराय उपस्थिताः आसन्, यदा तु उच्चप्राथमिकविद्यालये परासियामिश्रे प्रधानाध्यापिका अर्चनासिंहः सहायकाध्यापिका पूनमसिंहः च उपस्थिते आस्ताम्।
हिन्दुस्थान समाचार