फिरोजाबाद-जनपदस्य रपड़ी-क्षेत्रं ईको-पर्यटन-केंद्ररूपेण विकसितं क्रियते
लखनऊ/फिरोजाबादनगरम्, ०९ मईमास: (हि.स.)। फिरोजाबाद-जनपदस्य रपड़ी-ईको-पर्यटन-क्षेत्रे विकास-कार्याणि अधुना तीव्रगत्या अग्रे गच्छन्ति। उत्तर-प्रदेश-पर्यटन-विभागेन स्वीकृतायाः प्रायः ३.४७ कोटि-रूप्यक-परियोजनायाः कार्याणि भूमिस्तरे द्रुतगत्या प्रचलन्ति।
संस्कृति मंत्री जयवीर सिंह


लखनऊ/फिरोजाबादनगरम्, ०९ मईमास: (हि.स.)। फिरोजाबाद-जनपदस्य रपड़ी-ईको-पर्यटन-क्षेत्रे विकास-कार्याणि अधुना तीव्रगत्या अग्रे गच्छन्ति। उत्तर-प्रदेश-पर्यटन-विभागेन स्वीकृतायाः प्रायः ३.४७ कोटि-रूप्यक-परियोजनायाः कार्याणि भूमिस्तरे द्रुतगत्या प्रचलन्ति। प्रथम-किश्तरूपेण २.६० कोटि-रूप्यकाणां निर्गमनानन्तरं निर्माण-कार्येषु वेगः दृष्टः अस्ति। अस्यां परियोजनायां रपड़ी-ईको-उद्यानम। आधुनिक-आकर्षक-पर्यटन-स्थलरूपेण विकसितं क्रियते।

अत्र बालकानां कृते आधुनिकः क्रीडास्थलं, नूतन-प्रवेश-द्वारम्, सैंड-स्टोन-बेन्च, सूचना-पट्टिकाः (साइनिज्) तथा पर्यावरणानुकूल-सुविधाः निर्मीयन्ते। तेन सह उद्याने मगरमच्छः, हाइना, कच्छपः, डॉल्फिनः, भारतीय-रॉक-पाइथनः इत्यादीनां वन्य-जीवानां जीवन-आकार-प्रतिमाः स्थापयितुं सज्जाः क्रियन्ते, याः पर्यटकानां बालकानां च प्रमुख-आकर्षणं भविष्यन्ति।

पर्यावरण-संरक्षणाय रूफ-टॉप-सौर-फोटो-वोल्टाइक-ऊर्जा-प्रणाल्याः कार्यमपि प्रगतौ अस्ति, येन ईको-फ्रेंडली-पर्यटन-आदर्श: सुदृढः भवति। पर्यटकानां कृते आधुनिक-आसन-व्यवस्था, विश्राम-स्थलानि, ऊर्जा-कुशल-प्रकाश-व्यवस्था, सुव्यवस्थित-मार्गाः तथा सौन्दर्यीकरण-कार्याणि अपि तीव्रगत्या प्रचलन्ति।

उत्तर-प्रदेशस्य पर्यटन-एवं संस्कृतिमन्त्री जयवीर-सिंहः उक्तवान् यत् रपड़ी-ईको-पर्यटन-क्षेत्रं न केवलं पर्यटन-विकासं वर्धयिष्यति, अपि तु स्थानीय-स्तरे रोजगार-स्वरोजगार-अवसरान् अपि सृजिष्यति। सः अवदत् यत् सौर-ऊर्जा, आधुनिक-प्रकाश-व्यवस्था तथा पर्यावरण-अनुकूल-सुविधाभिः सह अस्य क्षेत्रस्य नूतन-रूपेण विकासः क्रियते, येन इदं भविष्ये प्रदेशस्य प्रमुख-नेचर-टूरिज्म-डेस्टिनेशन-रूपेण प्रतिष्ठां लप्स्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता