Enter your Email Address to subscribe to our newsletters

कोरबा-जनपदः, ०९ मईमासः (हि.स.)। ज्येष्ठ-मासस्य तप्त-आतपस्य मध्ये रामपुरस्य वनेषु पुनरेकवारं ‘हरित-सुवर्णम्’ अर्थात् तेंदूपत्र-संग्रहणस्य कार्यं पुनरागतम्। दीर्घ-प्रतीक्षानन्तरं आरब्धेन अस्मिन् ऋतौ ग्रामीणानां, विशेषतः महिलानां मुखेषु नूतन-आशायाः स्मितं प्रकटितम्। अस्मिन् वर्षे संग्रहण-कार्यस्य विधिवत् शुभारम्भः रामपुर-केन्द्रे पूजार्चनया सह अभवत्, यस्मिन् बहुसंख्यकाः ग्रामीणाः महिला-हितग्राहिण्यः च सहभागीभूताः।
प्रातः सूर्योदयात् पूर्वमेव रामपुर-निवासिन्यौ कारी-बाई-पटेल तथा खेमबाई-पटेल: स्वपरिवारैः सह वनं गतवत्यौ। मध्याह्ने यदा ते तेंदूपत्रस्य गड्डिकाः आदाय क्रय-केन्द्रम् आगतवत्यौ, तदा तत्र उत्सव-सदृशः वातावरणः दृष्टः। उभे हितग्राहिण्यौ ग्रामीणेषु ‘बोहनी’ कर्तुं प्रथम-संग्राहिके अभवताम्।
कारी-बाई हर्षं व्यक्तवती यत् शासकीय-क्रयस्य समये आरम्भेन ताभ्यः बिचौलिकेभ्यः शिथिलता प्राप्ता। प्रत्यक्षतया पत्र-विक्रयेण उचितं पारिश्रमिकं सुनिश्चितं भवति, येन सम्पूर्ण-वर्षस्य आर्थिक-प्रबन्धनं सुगमतया चलति।
शासनेन अस्मिन् वर्षे तेंदूपत्रस्य मूल्यं ४,००० रूप्यकेभ्यः ५,५०० रूप्यकाणि प्रति-मानक-बोरम् इति वर्धितम्, यस्य सकारात्मकः प्रभावः ग्रामीण-परिवाराणाम् आये स्पष्टतया दृश्यते। वर्धितेन मूल्येन संग्राहकानां उत्साहः विश्वासः च अधिकं दृढीकृतः। रामपुर-क्षेत्रे तेंदूपत्र-ऋतुः जनजातीय-परिवाराणाम् आजीविकायाः मुख्यः आधारः अस्ति। सावधानतया पत्र-च्छेदनम्, गड्डिका-निर्माणं च कठिनं किन्तु महत्त्वपूर्णं कार्यम् अस्ति, यस्मिन् महिलानां भूमिका विशेषरूपेण महत्त्वपूर्णा अस्ति।
वनोपज-समितेः प्रबन्धकैः उक्तं यत् अस्मिन् वर्षे क्रय-व्यवस्थां पूर्णतया पारदर्शिनीं सुव्यवस्थितां च कर्तुं विशेष-ध्यानं दत्तम्। फडे गड्डिनां गणना तथा गुणवत्ता-परीक्षणं आधुनिक-मापदण्डानाम् आधारेण क्रियते। संग्राहकानां धनागारेषु पारिश्रमिकस्य भुगतानं डिजिटल-माध्यमेन शीघ्रं सुनिश्चितं क्रियते, येन कस्यापि प्रकारस्य विलम्बस्य असुविधायाः वा सम्भावना न भवेत्।
अनुकूल-ऋतो: कारणेन अस्मिन् वारे पत्राणां गुणवत्ता अधिका वर्तते, येन संग्राहकानाम् आय-वृद्धेः सम्भावना अपि दृढता प्राप्तवती। ग्रामीणानां कृते ‘हरित-सुवर्णम्’ केवलं वनोपजं नास्ति, अपितु तेषां स्वावलम्बनस्य आर्थिक-स्थैर्यस्य च आधारः जातः।
प्रशासनेन सर्वेभ्यः संग्राहकेभ्यः अपीलः कृतः यत् ते शासन-निर्धारित-दराणां मापदण्डानां च पालनं कुर्वन्तः स्वस्य तेंदूपत्रं केवलं सहकारी-समिति-केन्द्रेषु एव विक्रयन्तु, येन तेषां योजनानां बोनस-इत्यस्य च पूर्णं प्रत्यक्षं लाभं प्राप्तुं शक्यते।
रामपुरस्य परिश्रमी-स्त्रीणां निष्ठा, वनानां हरितिमा तथा शासनस्य दूरदर्शिनी प्रयत्न: — एतेषां त्रयाणां संयुक्त-प्रयत्नेन ‘हरित-सुवर्णम्’ ग्रामीण-समृद्धेः सशक्तं माध्यमं निर्मितम् ।
हिन्दुस्थान समाचार / अंशु गुप्ता