दक्षिण भारते भाजपां दृढकर्ता महानायकोऽस्ति येदियुरप्पा : अमितशाहः
चित्रदुर्गः, 09 मईमासः (हि.स.)। कर्नाटकराज्यस्य पूर्वमुख्यमन्त्री बी. एस. येदियुरप्पस्य सार्वजनिकराजनीतिकजीवनस्य पञ्चाशद्वर्षपूर्त्यवसरे शनिवासरे चित्रदुर्गे आयोजितः “बीएसवाई अभिमानोत्सव” कार्यक्रमः भव्ये ऐतिहासिकवातावरणे सम्पन्नः अभवत्। अस्मिन् का
ಅಮಿತ್ ಶಾ


चित्रदुर्गः, 09 मईमासः (हि.स.)। कर्नाटकराज्यस्य पूर्वमुख्यमन्त्री बी. एस. येदियुरप्पस्य सार्वजनिकराजनीतिकजीवनस्य पञ्चाशद्वर्षपूर्त्यवसरे शनिवासरे चित्रदुर्गे आयोजितः “बीएसवाई अभिमानोत्सव” कार्यक्रमः भव्ये ऐतिहासिकवातावरणे सम्पन्नः अभवत्। अस्मिन् कार्यक्रमे केन्द्रीयगृहमन्त्री अमितशाहः अपि सहभागी अभवत्।

विशालजनसमूहं सम्बोधयन् अमितशाहः उक्तवान् यत् कर्नाटके भाजपादलस्य संगठनं सुदृढं कर्तुं येदियुरप्पस्य योगदानम् अतुलनीयम् अस्ति। तेन उक्तं यत् येदियुरप्पः शून्यात् आरभ्य दलं स्थापितवान् तथा दक्षिणभारते भाजपादलस्य प्रथमसरकारनिर्माणे निर्णायकभूमिकां निर्वहितवान्।

गृहमन्त्री उक्तवान् यत् कृषकाणां दरिद्रजनानां पृष्ठवर्गस्य च कल्याणार्थं येदियुरप्पः निरन्तरं कार्यं कृतवान्। तस्य राजनीतिकजीवनं अद्यतनसंततेः नेतृणां कृते प्रेरणास्रोतः अस्ति।

अस्मिन् अवसरे अमितशाहः येदियुरप्पस्य पञ्चदशकलदीर्घस्य राजनीतिकप्रवासस्य विधानसभायां प्रदत्तानां तस्य भाषणानां सार्वजनिकजीवनस्य च आधारेण निर्मितस्मारिकाणां पुस्तकानां च विमोचनं कृतवान्। कार्यक्रमस्थले भाजपाकार्यकर्तारः घोषणाभिः सह नेतॄणां भव्यस्वागतं कृतवन्तः।

तत्रैव स्वसम्बोधने बी. एस. येदियुरप्पः उक्तवान् यत् जनतानाम् आशीर्वादः एव तस्य महान् शक्तिस्रोतः अस्ति। तेन उक्तं यत् कार्यकर्तृणां प्रेमविश्वासयोः कारणेन एव सः एतत् स्थानं प्राप्तवान्। सहैव तेन राज्ये पुनः एकवारं भाजपासरकारनिर्माणस्य इच्छा व्यक्ता।

अस्मिन् कार्यक्रमे भाजपाप्रदेशाध्यक्षः बी. वाई. विजयेंद्रः केन्द्रीयमन्त्री शोभाकरंदलाजे पूर्वमुख्यमन्त्री बसवराजबोम्मई वरिष्ठनेता जगदीशशेट्टारः इत्यादयः अनेकाः वरिष्ठनेतारः उपस्थिताः आसन्। राज्यस्य विभिन्नमठानां स्वामीजनाः अपि कार्यक्रमे सहभागीभूत्वा येदियुरप्पं आशीर्वादं दत्तवन्तः।

“अभिमानोत्सव” कार्यक्रमार्थं चित्रदुर्गस्य बाह्यप्रदेशे विशालमञ्चः निर्मितः आसीत्। राज्यस्य विभिन्नजिलाभ्यः सहस्रशः भाजपाकार्यकर्तारः समर्थकाः च वाहनैः आगतवन्तः। आयोजनस्थले पेयजलभोजनचिकित्सासहाय्यच्छायादीनां सर्वासां आवश्यकसुविधानां समुचितव्यवस्था कृता आसीत्।--------------

हिन्दुस्थान समाचार