Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्री डॉ. यादवः पश्चिम बंगाले नवसर्वकारस्य शपथ ग्रहण समारोहे सम्मिलितः ,नवनियुक्त मुख्यमंत्री शुभेंदु अधिकारी अददाद्वर्धापनानि।
भोपालम्, 09 मईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् पश्चिमबङ्गाले नूतनसरकारस्य गठनस्य सहैव अद्य प्रभृति सुशासनस्य सुरक्षायाः विकासस्य च नवयुगस्य शुभारम्भः अभवत्। पश्चिमबङ्गालः अधुना वास्तविकार्थे “आमार सोनार बाङ्ग्ला” भविष्यति।
मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदर्शिमार्गदर्शनेन पश्चिमबङ्गालस्य नवनियुक्तमुख्यमन्त्रिणः शुभेन्दुअधिकाऱिणः नेतृत्वेन च एतत् राज्यं अधुना स्वपुरातनगौरवं वैभवं च पुनः प्राप्य समग्रविकासस्य निवेशस्य सुशासनस्य जनकल्याणस्य च नवनवान् कीर्तिमानान् स्थापयिष्यति।
मुख्यमन्त्री डॉ. यादवः शनिवासरे कोलकातानगरस्य बिग्रेडपरेडक्रीडांगणे आयोजिते पश्चिमबङ्गालस्य नवगठितराज्यसरकारस्य शपथग्रहणसमारोहे सहभागी अभवत्। केन्द्रीयगृहमन्त्री अमितशाहः केन्द्रीयरक्षामन्त्री राजनाथसिंहः अन्ये वरिष्ठाः केन्द्रीयमन्त्रिणः एनडीएशासितविभिन्नराज्यानां मुख्यमन्त्रिणः अतिविशिष्टजनाश्च अस्मिन् समारोहे उपस्थिताः आसन्। अस्मिन् नूतनसर्वकारस्य शपथग्रहणसमारोहे शुभेन्दुअधिकारी पश्चिमबङ्गालस्य मुख्यमन्त्रिरूपेण शपथवचनं गृहीतवान्।
पश्चिमबङ्गालस्य राज्यपालः आर. एन. रविः शुभेन्दुअधिकाऱिणं मुख्यमन्त्रिपदस्य तथा नूतनसर्वकारस्य अन्यान् पञ्च मन्त्रिणः अपि पदस्य गोपनीयतायाश्च शपथं कारितवान्।
मुख्यमन्त्री डॉ. यादवः पश्चिमबङ्गालस्य नवनियुक्तमुख्यमन्त्रिणं शुभेन्दुअधिकाऱिणं लोककल्याणस्य अस्य नूतनदायित्वस्य कृते हार्दिकाभिनन्दनानि अनन्तशुभकामनाश्च प्रदत्तवान्। मुख्यमन्त्री पश्चिमबङ्गालस्य विकासाय समर्पितान् क्षेत्रीयकार्यकर्तॄन् राज्यस्य जागरूकजनतां च अस्य ऐतिहासिकोपलब्धेः कृते अभिनन्दितवान्।
---------------
हिन्दुस्थान समाचार