Enter your Email Address to subscribe to our newsletters

भोपालम्, 09 मईमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः रविवासरे गुणाजनपदाय विकासस्य महतीं सौगातं दास्यति। मुख्यमन्त्री डॉ. यादवः जनपदे औद्योगिकविकासस्य अधोसंरचनासुदृढीकरणस्य रोजगारसृजनस्य च नूतनगतिप्रदानार्थं विविधविकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यति।
जनसम्पर्काधिकारी शुभमशर्मा शनिवासरे उक्तवान् यत् मुख्यमन्त्री डॉ. यादवः १०५९ कोटिरूप्यकव्ययेन स्थाप्यमानायाः अम्बुजासीमेण्ट्-निर्माणसंस्थायाः शिलान्यासं करिष्यति। सहैव प्रायः १३० कोटिरूप्यकव्यययुक्तानां १४४ विविधविकासकार्याणां भूमिपूजनं लोकार्पणं च करिष्यति। एतेषां विकासकार्याणां माध्यमेन जनपदे आधारभूतसुविधानां विस्तारः भविष्यति तथा च सामान्यजनाः उत्तमसेवानां लाभं प्राप्स्यन्ति।
जनपदे जीविकानाम्अवसराः प्राप्स्यन्ते
जनसम्पर्काधिकाऱिणः अनुसारं अम्बुजाकाङ्क्रीट् नार्थ् प्रा. लि. (अडानीसमूहः) इत्यनेन मावनप्रदेशे ३२ हेक्टेयरभूमौ स्थाप्यमाना एषा सीमेण्ट्-परियोजना जनपदस्य औद्योगिकविकासे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। अस्याः परियोजनायाः उत्पादनक्षमता प्रतिवर्षं २×२ मिलियनटनपरिमिता भविष्यति। एषा इकाई गुणानगरात् प्रायः ५ किलोमीटरदूरे स्थाप्यते।
सीमेण्ट-परियोजनायाः आरम्भे सति स्थानीयस्तरे व्यापकाः रोजगारावसराः सृज्यन्ते। प्रायः ५०० जनाः प्रत्यक्षरूपेण तथा १००० जनाः अप्रत्यक्षरूपेण रोजगारं प्राप्स्यन्ति। सहैव शासनाय प्रतिवर्षं प्रायः १६० कोटिरूप्यकपरिमितस्य जीएसटी-राजस्वस्य प्राप्तेः सम्भावना वर्तते।
क्षेत्रीयविकासः प्रोत्साहनं प्राप्स्यति
प्रस्तावितया परियोजनया केवलम् औद्योगिकनिवेशस्य प्रोत्साहनं न भविष्यति, अपितु परिवहनव्यापारसेवाक्षेत्राणां तथा अन्यसहायकक्रियाकलापानामपि विकासः भविष्यति। अनेन गुणाजनपदस्य आर्थिकक्रियाकलापेषु वृद्धिः भविष्यति तथा क्षेत्रीयविकासाय नूतना दिशा प्रदास्यते।
अस्मिन् कार्यक्रमे केन्द्रीयसञ्चारमन्त्री पूर्वोत्तरक्षेत्रविकासमन्त्री च ज्योतिरादित्यसिन्धिया, मध्यप्रदेशस्य खाद्यनागरिकआपूर्तिमन्त्री गुणाजनपदस्य प्रभारीमन्त्री च गोविन्दसिंहराजपूतः तथा अन्ये जनप्रतिनिधयः उपस्थिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार