Enter your Email Address to subscribe to our newsletters

नवदेहली, ०९ मईमासः (हि.स.)। केन्द्र-सर्वकारेण वाइस-एडमिरल-कृष्ण-स्वामीनाथन देशस्य अग्रिमः नौसेनाप्रमुखः नियुक्तः। सः अधुना पश्चिम-नौसेना-कमानस्य फ्लैग-ऑफिसरकमाण्डिङ्-इन-चीफ-पदे कार्यरतः अस्ति। तस्य नौसेनायां परिचालन-रणनीतिक-कार्मिक-प्रबन्धनसम्बद्धेषु पदेषु प्रायः चत्वारिंशद्वर्षीयः उत्कृष्टः अनुभवः अस्ति। सः एडमिरल-दिनेश-कुमार-त्रिपाठी-स्थानं गृह्णीयात्, यः ३१ मे-मासे सेवानिवृत्तः भविष्यति।
वाइस-एडमिरल-कृष्ण-स्वामीनाथनः अस्य पूर्वं नौसेनायाः ४६तमः उपप्रमुखः, चीफ-ऑफ-पर्सनल, कन्ट्रोलर-ऑफ-पर्सनल-सर्विसेज, पश्चिम-नौसेना-कमान-इत्यस्य चीफ-ऑफ-स्टाफ, फ्लैग-ऑफिसर-डिफेन्स-एड्वैजरी-समूहः, फ्लैग-ऑफिसर-कमाण्डिङ्-वेस्टर्न-फ्लीट तथा फ्लैग-ऑफिसर-सी-ट्रेनिङ् इत्यादिषु पदेषु कार्यं कृतवान्। सः विमानवाहक-पोतस्य आईएनएस विक्रमादित्यस्य द्वितीयः कमाण्डिङ्-कार्यप्रमुखः आसीत्। कृष्ण-स्वामीनाथनः १ जुलाईमासे १९८७ तमे वर्षे भारतीय-नौसेनायां कमीशन-इति प्राप्तवान्। सः स्वस्य प्रारम्भिक-वर्षाणि मुम्बई-नगरे व्यतीतवान्, यत्र तेन पॉन्डिचेरी-श्रेण्याः माइनस्वीपर आईएनएस एलेप्पी इत्यस्मिन् वॉचकीपिङ्-लैसेन्स-इति प्राप्तम्। तेन सञ्चार-इलेक्ट्रॉनिक-युद्धयोः विशेषज्ञता अर्जिता।
तेन १९९०-दशकस्य आरम्भे उत्तरप्रदेशस्य राज्यपालस्य सहायकत्वेन कार्यं कृतम्। ततः २००० तमे वर्षे यूनाइटेड्-किङ्ग्डम-देशस्य श्रीवेनहैम-स्थे संयुक्त-सेवा-कमान-स्टाफ-महाविद्यालये उन्नत-कमान-स्टाफ-पाठ्यक्रमे सहभागितायै चयनं जातम्। कृष्ण-स्वामीनाथनेन वीर-श्रेण्याः युद्धपोतयोः आईएनएस विद्युत् तथा आईएनएस विनाश इत्येतयोः कमान-इति स्वीकृतम्। २००३ तमे वर्षे कमाण्डर-पदे पदोन्नतिः प्राप्ता, ततः पश्चिम-बेडस्य स्टाफ्-मण्डले फ्लीट-इलेक्ट्रॉनिक-वारफेयर-ऑफिसर-रूपेण कार्यं कृतवान्। अनन्तरं तेन कोरा-श्रेण्याः युद्धपोतस्य आईएनएस-कुलिशस्य कमान-इति स्वीकृतम्।
अनन्तरं कृष्ण-स्वामीनाथन मुम्बई-नगरे कॉलेज-ऑफ-नेवल-वारफेयर-इत्यत्र उच्च-कमान-पाठ्यक्रमे सहभागितां कर्तुं पूर्वं वेलिंग्टन-नगरे डिफेन्स-सर्विसेज-स्टाफ-महाविद्यालये डायरेक्टिङ्-स्टाफ-रूपेण कार्यरतः आसीत्। वाइस-एडमिरल कृष्ण-स्वामीनाथनः २००९ तमे वर्षे कैप्टन-पदे पदोन्नतिं प्राप्तवान् तथा संयुक्त-राज्य-अमेरिकादेशस्य रोड-आइलैण्ड-स्थिते न्यूपोर्ट-नौसेना-युद्ध-महाविद्यालये अध्ययनार्थं चयनितः। स्वदेशं प्रत्यागत्य सः नौसेनाप्रमुखस्य एडमिरल-निर्मल-कुमार-वर्मणः नौसेना-सहायकः (एनए) नियुक्तः। एनए-पदे कार्यकालानन्तरं तेन निर्देशित-प्रक्षेपास्त्र-विध्वंसकस्य आईएनएस मैसूर इत्यस्य दायित्वं स्वीकृतम्। सः २०११ तमे वर्षे राष्ट्रपतेः बेड़ा-समीक्षायाः समये मैसूर-पोतस्य कमाण्डर-इति आसीत्। तस्य नेतृत्वे पोतेन २०१२ तमे वर्षस्य अन्ते रूस-देशेन सह संयुक्त-नौसेना-अभ्यासे सहभागिता कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता