पश्चिम बंगालस्य मुख्यमंत्रिपदस्य शपथग्रहणे शुभेंदु अधिकारिणे ओडिशायाः मुख्यमंत्री नेता प्रतिपक्षश्च अयच्छतां वर्धापनानि
भुवनेश्वरम्, 09 मईमासः (हि.स.)।ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी तथा प्रतिपक्षनेता नवीनपटनायक शनिवासरे शुभेन्द्वधिकारी महोदयाय पश्चिमबङ्गस्य मुख्यमन्त्रिपदस्य शपथग्रहणस्य अवसरे अभिनन्दनं शुभकामनाः च प्रदत्तवन्तौ। सामाजिकमाध्यमेषु प्रकाशिते सन्
शुभेंदु अधिकारी


भुवनेश्वरम्, 09 मईमासः (हि.स.)।ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी तथा प्रतिपक्षनेता नवीनपटनायक शनिवासरे शुभेन्द्वधिकारी महोदयाय पश्चिमबङ्गस्य मुख्यमन्त्रिपदस्य शपथग्रहणस्य अवसरे अभिनन्दनं शुभकामनाः च प्रदत्तवन्तौ। सामाजिकमाध्यमेषु प्रकाशिते सन्देशे ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी शुभेन्द्वधिकारी महोदयाय हार्दिकाभिनन्दनं प्रदाय विश्वासं व्यक्तवान् यत् तस्य गतिशीलनेतृत्वे तथा नरेन्द्रमोदिनः दूरदर्शिमार्गदर्शने पश्चिमबङ्गराज्यं प्रगतेः, समृद्धेः तथा जनकल्याणाधारितसुशासनस्य नूतनयुगं प्रवेक्ष्यति। मुख्यमन्त्री माझी आशां व्यक्तवान् यत् शुभेन्द्वधिकारिणो नेतृत्वे राज्ये व्यापकविकासः भविष्यति तथा जनानां कृते नूतनावसराः सृज्यन्ते। तेन नवगठितसर्वकारस्य सफलप्रभाविकार्यकालस्य अपि शुभकामनाः प्रदत्ताः।

तथैव पूर्व-ओडिशामुख्यमन्त्री तथा प्रतिपक्षनेता नवीनपटनायक अपि शुभेन्द्वधिकारी महोदयाय पश्चिमबङ्गस्य मुख्यमन्त्रिपदस्य दायित्वग्रहणस्य अवसरे शुभकामनाः प्रदत्तवान्। स्वसन्देशे तेन आशा व्यक्ता यत् शुभेन्द्वधिकारीणः नेतृत्वे पश्चिमबङ्गराज्यं विकासस्य नूतन-उच्चताः स्प्रक्ष्यति। नवीनपटनायकेन राज्यसरकाराय जनकल्याणस्य समग्रविकासस्य च कृते सफलतायाः शुभाशंसाः अपि प्रदत्ताः।

---------------

हिन्दुस्थान समाचार