प्रधानमंत्री 10-11 मई दिनांकयोः गुजरातभ्रमणे , सोमनाथ अमृत महोत्सवः अथ सरदारधामच्छात्रावासस्य करिष्यति उद्घाटनम्
नवदिल्ली, 09 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी १० तथा ११ मे मासस्य दिनयोः गुजरातराज्यस्य भ्रमणं भविष्यति। अस्मिन् अवसरे सः ११ मेमासीये दिनाङ्के प्रातःकाले सोमनाथमन्दिरे आयोजिते सोमनाथ-अमृत-महोत्सवे सहभागी भविष्यति, यत्र पुनर्निर्मितस्य मन्द
प्रधानमंत्री नरेंद्र मोदी


नवदिल्ली, 09 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी १० तथा ११ मे मासस्य दिनयोः गुजरातराज्यस्य भ्रमणं भविष्यति। अस्मिन् अवसरे सः ११ मेमासीये दिनाङ्के प्रातःकाले सोमनाथमन्दिरे आयोजिते सोमनाथ-अमृत-महोत्सवे सहभागी भविष्यति, यत्र पुनर्निर्मितस्य मन्दिरस्य लोकार्पणस्य पञ्चसप्ततितमा वार्षिकी आचरिष्यते। प्रधानमन्त्री विशेषमहापूजायां, कुम्भाभिषेके, ध्वजारोहणादिषु धार्मिकानुष्ठानेषु भागं ग्रहीष्यति तथा च अस्मिन् अवसरे स्मारक-डाक-टिकटं मुद्रां च विमोक्ष्यति।

प्रधानमन्त्रीकार्यालयस्य अनुसारेण, ततः परं प्रधानमन्त्री ११ मे दिनस्य सायंकाले वडोदरानगरं गमिष्यति, यत्र सः सरदारधाम-छात्रावासस्य उद्घाटनं करिष्यति। अस्य परियोजनायां सहस्रं बालकानां तथा सहस्रं बालिकानां कृते आवासीयसुविधा प्रदत्ता अस्ति। छात्रावासे केन्द्रीयभोजनालयः, ग्रन्थालयः, प्रेक्षागृहं च इत्यादयः आधुनिकसुविधाः अपि विकसिताः सन्ति। प्रधानमन्त्री सरदारधाम-परिसरस्य विभिन्नभागान् अपि निरीक्षिष्यति, येषु स्वागतक्षेत्रम्, नागरिकसुविधाः, भोजनालयः तथा ई-ग्रन्थालयः समाविष्टाः सन्ति।

उल्लेखनीयम् अस्ति यत् सोमनाथमन्दिरे आयोजितः अयं कार्यक्रमः भारतस्य श्रद्धायाः सभ्यतायाश्च वैभवं प्रदर्शयिष्यति। एतन्मन्दिरं, यत् द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति, देशस्य सांस्कृतिक-आध्यात्मिकसंपदायाः प्रतीकरूपेण मान्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani